OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 17, 2022

 अग्निपथः प्रज्वालयति -  उत्तरभारते व्यापकप्रतिषेधः। 

नवदिल्ली> केन्द्रसर्वकारस्य निर्दिष्टम् अग्निपथं नामिकां परियोजनां विरुध्य आराष्ट्रं प्रतिषेधः प्रवर्तते। केषुचित् स्थानेषु प्रतिषेधः अक्रमासक्तः अभवत्। राष्ट्रस्य सायुधसेनासु युवकानां वर्षचतुष्टयं यावत् ह्रस्वकालनियुक्तिं दीयमाना परियोजना अस्त्येषा। 

   बिहारः, उत्तरप्रदेशः, हरियानं, राजस्थानं, मध्यप्रदेशः, जम्मु, उत्तराखण्डः, हिमाचलप्रदेशः इत्येषु उत्तरभारतीयराज्येषु युवकाः वीथिं प्राप्य तीव्रं प्रतिषेधं प्राकटयन्। बिहारे त्रीणि रेल् यानानि अग्निसात्कृतानि। बहुत्र राजमार्गाः रेल्मार्गाश्च उपरुद्धाः। 

  परियोजनां प्रति प्रतिषेधस्य कारणानि एतानि - स्थिरनियुक्तिः नास्ति, पूर्वसेवावेतनादिकानि आनुकूल्यानि नार्हन्ति, कार्यकालः सप्तदशवयः आरभ्य २१ वयःपर्यन्तमित्यतः उन्नतशिक्षां बाधते, वर्षचतुष्टयानन्तरं अव्यक्तता वर्तते, वर्षचतुष्टयानन्तरं ७५% सैनिकाः अवश्यं सेवातः निवर्तयितव्याः।