OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 10, 2022

 मिताली राजः निवृत्ता। 


नवदिल्ली>  महिलाक्रिक्कट्दलाय भासमानं मुखं सङ्केतं च दत्तवती भारतस्य महिलाक्रिक्कट्दलस्य नायिका मिताली राजः क्रीडायाः सर्वेभ्यः प्रकारेभ्यः निवर्तते इति ट्विट्टर् द्वारा प्रख्यापितवती। 

    १९९९ तमे वर्षे स्वस्याः १६ तमे वयसि अयर्लान्डं विरुध्य एकदिनक्रीडया अन्तर्राष्ट्रीयक्रिक्कट्क्रीडाक्षेत्रे प्रारम्भं कृतवती मिताली २३ संवत्सराणि क्रीडाङ्कणेषु अभिमानार्हाभिः क्रीडाभिः प्रशोभितवती। एकदिनेषु निकषास्पर्धासु च भारतदलस्य नायिका आसीत्। १०,८६८ धावनाङ्कैः महिलाक्रिक्कट्क्रीडासु अधिकतमधावनाङ्कप्राप्ता इति श्रेष्ठपदं च प्राप्तवती। वनिताएकदिनस्पर्धासु अधिकतमधावनाङ्कार्हा च [७८०५] अभवत्।