OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 16, 2022

 भारत - इजरायल - यूएई- अमेरिका राष्ट्राणां मध्ये नूतन संबन्धः। आगामिमासे प्रथमं शिखरसम्मेलनम्।

वाशिङ्गटन्> भारत-इजरायल-यूएई-अमेरिका राष्ट्राणां मध्ये निर्मितस्य नूतनस्य संबन्धस्य प्रथम-समागमः आगामिमासे भविष्यति इति वैट् हाउस् इत्यतः घोषितम्। नूतन सख्याः विश्वराष्ट्रेण सह विद्यमान संबन्धस्य दृढीकरणाय पोषणाय च भवति। बैडनस्य प्रशासनस्य विशेषप्रयत्नः भवति अयम्। I2U2 इति भवति नूतनसख्यस्य नाम। 

    विश्वविपण्यां भारतस्य उत्पन्नानां विशेषमानकानि सन्ति। अतः वस्तूनां अवश्यकता अधिकतया अस्ति। नूतनसंगठनेन विविधमण्डलेषु संयुक्तपदन्यासाय सन्दर्भः अस्ति इति वैट्हौस् इत्यस्य प्रवक्ता नेड् प्रैस् अवदत्।