OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 3, 2022

 तुर्कीराष्ट्रं नूतनं नाम स्वीकृतम्; संयुक्तराष्ट्रसंख्येन अङ्गीकृतम्।


तुर्कीदेशः पुरातनः तुर्कीदेशः नास्ति। 'तुर्की' इति नाम अपि परिवर्तितम्। संयुक्तराष्ट्रसङ्घस्य अभिलेखेषु नूतनं नाम भविष्यति। तुर्की-सर्वकारस्य अनुरोधेन संयुक्तराष्ट्रसङ्घेन अस्य नामपरिवर्तनस्य अनुमोदनं कृतम्। संयुक्तराष्ट्रसङ्घस्य प्रवक्ता अवदत् यत् विषयेऽस्मिन् तुर्कीदेशस्य विदेशमन्त्रिणः पत्रं प्राप्तम्। इतःपरं सर्वत्र 'तुर्की' इत्यस्य स्थाने 'तुर्कीये' इत्यस्य उपयोगं कर्तुं संप्रार्थितम् आसीत्। यू एन् प्रवक्ता उक्तवान् यत् पत्रं प्राप्तात् क्षणात् एव देशस्य नामपरिवर्तनं प्रवर्तते। तुर्कीये-सर्वकारेण उक्तं यत् अन्याभ्यः अन्ताराष्ट्रीयसंस्थाभ्यः अन्येभ्यः देशेभ्यः च नाम परिवर्तनस्य विषये शीघ्रमेव सूचयिष्यति इति। 
    नूतनं नाम देशस्य सर्वोत्तममार्गं प्रतिनिधानं करोति इति राष्ट्रपतिः तैय्यप् एर्दोगानः अवदत्। देशस्य जनानां संस्कृतिं, सभ्यतां, मूल्यानि च समाहितं भवति नूतनं नाम इति तेनोक्तम्। देशात् निर्यातितेषु सर्वेषु उत्पादेषु "मेड् इन् तुर्कीये" इति योजितम् अस्ति। अस्मिन् वर्षे प्रारम्भे 'हेलो तुर्कीये' इति पर्यटन-अभियानं प्रारब्धम् आसीत्। इतः परं सर्वासु भाषासु देशस्य वर्णनार्थं "तुर्कीये" इति शब्दस्य प्रयोगं कर्तुं जनसमुदायेन आग्रहः क्रियते। सः राज्यसंस्थाभ्यः अपि स्वपत्राचारेषु तुर्कीयेदेशनामस्य उपयोगं कर्तुं राष्ट्रपतिः तैय्यप् एर्दोगानः निर्देशितवान्।