OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 4, 2022

 विधानसभा उपनिर्वाचनानि - उत्तरखण्डे मुख्यमन्त्री विजयीभूतः। 

अन्यस्मिन् स्थानद्वये वर्तितदलश्च। 

नवदिल्ली> राष्ट्रे गते ३१तमे दिनाङ्के सम्पन्नानां त्रयाणां विधानसभाउपनिर्नाचनानां मतगणनाफलं प्रख्यापितम्। उत्तराखण्डस्य चम्पावत विधानसभामण्डले सम्पन्ने उपनिर्वाचने मुख्यमन्त्री पुष्करसिंहधामी विजयीभूतः। 

   कृतेषु मतदानेषु ९२.९४% संलभ्य एव सः मुख्यमन्त्रिपदं दृढीकृतवान्। मुख्यप्रतियोगी कोण्ग्रस्दलस्य निर्मला गह्तोरी इत्येनमपेक्ष्य ५५,००० मतदानानि धामिने अधिकतया लब्धानि। विगते विधानसभानिर्वाचने भा ज पी दलाय शासनाधिकारः पुनर्लब्धोSपि खातिमामण्दडले स्पर्धितः भाजपादलस्य मुख्यमन्त्रिस्थानाशी  धामी पराजितः आसन्। किन्तु धामी एव मुख्यमन्त्रिरूपेण दलेन नियुक्तः। ततः मुख्यमन्त्रिणः स्पर्धायै भाजपादलप्रतिनिधी विधानसभाङ्गः कैलाष चन्द्र गह्तोरी स्वस्थानं परित्यक्तवान्। तत्रैव धामी उज्वलविजयं प्राप्तवान्। 

  अन्ययोः मण्डलयोः वर्तितस्य राजनैतिकदलस्य प्रतिनिधिः एव विजितः। ओडीषायां ब्रजराजनगरविधानसभामण्डले प्रशासनदलस्य बिजु जनता दलस्य अलक मोहन्ती विजयीभूतः। तथा च केरले तृक्काक्कर मण्डले कोण्ग्रस् दलस्य  स्थानाशिनी उमातोमसः उज्वलविजयेन स्वदलस्य मण्डलं सुरक्षितमकरोत्।