OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 24, 2022

ब्रिक्स् उच्चशिखरमेलने भारतस्य राजदूतः चीनस्य विदेशमन्त्रिणा सह अमिलत्। 

बेय्जिङ्> भारतस्य राजदूतः प्रदीपकुमाररावत्तः चीनस्य विदेशमन्त्रिणा वाङ्षिणा  सह मिलितवान् । वाङ्षेः उपचारपूर्वक्षणानुसारमेव रावत्तः मेलने भागं स्वीकृतवान्। राष्ट्रपतिः षिचिन् पिङ् इत्यस्य आध्यक्षे समारप्स्यमाणे ब्रिक्स् उच्चशिखरमेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भागं स्वीकरिष्यति। तत् पुरस्कृत्यैव मेलनमिदम्। मार्च् मासे बेय्जिङ् मध्ये भारतस्य राजदूतरूपेण स्थानारोहणानन्तरं प्रथमसन्दर्शनमिदमिति भारतस्य दूतावासकार्यालयेन आवेदितम्। राष्ट्रसीमायां शान्ति - समता पालनमधिकृत्य परस्परं चर्चितौ।