OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 19, 2022

 अग्निपथे रोषाग्निः प्रज्वालयति; शीतीकर्तुं सर्वकारः। 

नवदिल्ली> अग्निपथप्रकरणे चतुर्थदिनेSपि अनुवर्तमानं देशव्याप्तप्रक्षोभं शीतीकर्तुं केन्द्रसर्वकारेण आरक्षणानि लाघवानि च प्रख्यापितानि। अग्निपथप्रकारेण वर्षचतुष्टयं सेवामनुष्ठीयमानेभ्यः अग्निवीरेभ्यः तेषां योग्यतायाः आधारेण रक्षामन्त्रालयस्य विविधेषु विभागेषु १० प्रतिशतम् आरक्षणमनुमोदितम्। अर्धसैनिकविभागेषु  आरक्षणं दास्यतीति गृहमन्त्रालयेनापि  प्रख्यापितम्। अग्निवीराणां वयःपरिधिः २६ संवत्सराणीति दीर्घितम्। 

   किन्तु प्रक्षोभः अधिकराज्येषु व्याप्तमस्ति। गतदिने कर्णाटकं केरलम् इत्यादिषु राज्येषु अपि प्रतिषेधाः संवृत्ताः। ह्यः अपि उत्तरभारतराज्येषु रेल् यानानि अन्यानि वाहनानि च आक्रमितानि। बीहारे प्रख्यापितं बन्द् सम्पूर्णमासीत्।