OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 15, 2022

 प्रोफ. टि प्रदीपाय अन्तर्राष्ट्रीय जलपुरस्कारः। 


चेन्नै> जलसम्बन्धिने गवेषणाय दीयमानः 'प्रिन्स् सुल्त्तान् बिन् अब्दुल् असीस्' अन्ताराष्ट्रजलपुरस्कारः प्रोफसर् टि प्रदीपाय लभते। केरलस्य मलप्पुरं प्रदेशीयः अयं मद्रास् ऐ ऐ टि मध्ये प्राचार्यः अस्ति। 

   'नानो तन्त्रविज्ञान'मुपयुज्य पानजलात् आर्सनिक् नामकं विषांशम् अपाकर्तुं तन्त्रमनेन आविष्कृतम्। विविधेषु राज्येषु १२ लक्षं जनाः अस्य तन्त्रविज्ञानस्य गुणफलमाश्रित्य आर्सनिक् विमुक्तं शुद्धजलं पिबन्ति। पानजले अन्तर्भूताः अन्ये विषांशाः अपि डा प्रदीपस्य नानोतन्त्रविज्ञानीयेन अपाकृताः सन्ति। 

   २,६६,००० डोलर् मूल्ययुक्तं पुरस्कारं सेप्टम्बर् १२ तमे दिनाङ्के न्यूयोर्कस्थे संयुक्तराष्ट्रसभायाः आस्थाने सम्पत्स्यमाने कार्यक्रमे दास्यति।