OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 5, 2022

 काश्मीरि पण्डितविभागानां कृते सविशेषसुरक्षा दास्यते। 

 नवदिल्ली> जम्मु-काश्मीरे 'पण्डित'नामकविभागे अन्तर्भूताः जनाः निरन्तरं  भीकराक्रमणविधेयाः भवन्ति इत्यतः तेषां कृते सविशेषसुरक्षां दास्यति। गृहमन्त्रिणः अमितषाहस्य नेतृत्वे सम्पन्ने उच्चस्तरीयोपवेशने आसीदयं निर्णयः। भीकराक्रमणं प्रतिरोद्धुं कर्कशप्रक्रमान् अवलम्बितुमपि निर्णीतम्। 

  अमर्नाथतीर्थाटनं प्रति भीकराक्रमणसाध्यता वर्तते इत्यतः सुरक्षाशक्तीकरणाय गुप्तचरविभागविन्यासाय अपि निर्णयः कृतः। उपवेशने राष्ट्रियसुरक्षाउपदेष्टा अजित् डोवलः, स्थलसेनाधिकारी जन. मनोज् पाण्डे, जम्मु-काश्मीरस्य लफ्टनन्ट् राज्यपालः मनोज सिंहः इत्यादयः भागं स्वीकृतवन्तः।