OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 18, 2022

 अग्निपथप्रक्षोभः व्याप्यते। 

नवदिल्ली> केन्द्रसर्वकारेण उद्घुष्टं ह्रस्वकालीनां सैनिकनियुक्तिपरियोजनां अग्निपथनामिकां विरुध्य गतदिने अपि राष्ट्र व्यापकप्रक्षोभः प्रचालितः। सर्वकारेण प्रख्यापिताः अनुनयनिर्देशाः निष्फलाः जाताः। सैनिकानां सेवाकालः २३ वयःपर्यन्तमिति परिष्कृत्य निगदितमासीत्। 

     पूर्वम् उत्तरभारतीयराज्येषु आपन्नाः अक्रमघटनाः गतदिने दक्षिणभारतमपि व्यापिताः। बिहारं, ओडीशा, उत्तरप्रदेशः, हरियानं, मध्यप्रदेशः इत्यादीनि राज्यानि विना तेलङ्काने अपि प्रतिषेधः अक्रमासक्तः अभवत्। रेल् यानानि इतरवाहनान्यपि प्रक्षोभकैः अग्निसात्कृतानि। 

   तेलङ्काने सेक्कन्दराबादे आरक्षकसेनया कृते भुषुण्डिप्रयोगे राकेशो नाम युवकः हतः। परियोजनां प्रतिषिध्य बिहारे अद्य विपक्षसंघटनैः 'बन्द' नामकं प्रतिषेधान्दोलनम् आचरिष्यते।