OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 12, 2022

 'एष्यन् चषकपादकन्दुकक्रीडा' - भारताय विजयः। 

कोल्कोत्ता> एष्यन् चषकपादकन्दुकक्रीडायाः योग्यतापादस्पर्धायाम् अफ्गानिस्थानं विरुध्य भारतस्य विजयः। 'डि'नामके संघे अफ्गानिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण भारतं विजयं प्राप। स्थगितसमीकरणसमये सहल् अब्दुल् समद् इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव भारतं विजयपदं प्राप्तवत्। 

   पूर्वं ८६तमे निमिषे भारतनायकः सुनिल् छेत्री प्रथमतया भारतमग्रं प्राप्तवान्। किन्तु निमिषद्वये सुबायिर् अमिरि इत्यनेन अफ्खानक्रीडकेण समावस्था  सम्प्राप्ता। अनन्तरं नष्टपरिहारकालस्य आद्यनिमिषे एव सहलस्य लक्ष्यकन्दुकेन भारतस्य विजयप्राप्तिरभवत्। 

    भारतस्य द्वितीयो विजय एवायम्। प्रथमे द्वन्द्वे कम्बोडियां अभिभूतवत्। अस्मिन् चक्रे भारतस्य अन्तिमक्रीडा १४तमे दिनाङ्के होङ्कोङ्ङं प्रति भविष्यति।