OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 4, 2022

हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका यात्रिकाणां कृते उद्घाटिता। 


हिमालयेषु नानावर्णैः अलङ्कृतानां पुष्पाणाम् उपत्यका सहृदयानां मनांसि हठात् आकर्षत् विराजते। उत्तराखण्डे चमोलि जनपदे हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका सन्दर्शकाणां कृते उद्घाटिता। प्रथमदिने ७६ सन्दर्शकाः उपत्यकायाम् आगताः। तेषु एकः विदेशीयः अपि अस्ति। 
   युनेस्को संस्थायाः पैतृकपट्टिकायाम् अन्तर्गता भवति १००० पादमितोन्नता एषा उपत्यका। इयं ८७.५ चतुरश्रपादविस्तृता भवति। ५०० विधानि पुष्पवैविध्यानि जून् मासादारभ्य ओक्टोबर् मासपर्यन्तं प्रफुल्लन्ति। ओक्टोबर् मासस्य एकत्रिंशत् दिनपर्यन्तं वाटिका सन्दर्शकानां कृते सुसज्जा भविष्यति। अत्यपूर्वं हिमालयसौन्दर्यंमपि आस्वादयितुं शक्यते इत्यतः एषा उपत्यका सहृदयानां यात्रिकाणां प्रियङ्करी भवति।