OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 25, 2022

 द्रौपदी मुर्मू नामाङ्कनपत्रिकां समर्पितवती।

नवदिल्ली> एन् डि ए सख्यस्य राष्ट्रपतिस्थानाशिनी द्रौपदी मुर्मूवर्या नामाङ्कनपत्रिकां समर्पितवती। मुख्यवरणाधिकारी राज्यसभाकार्यदर्शिप्रमुखः पि सी मोदी इत्यस्य सकाशे एव पत्रिकासमर्पणं कृतवती। 

  ह्यः मध्याह्ने संसद्सभायाः ग्रन्थशालामन्दिरं प्राप्तवती  द्रौपदी मुर्मू प्रधानमन्त्रिणा तथा अन्यनेतृभिः सह मिलितवती। तदन्तरं सभामन्दिरस्य समीपे वर्तमानासु महात्मा गान्धी , बी आर् अम्बेदंकरः, बिर्सा मुण्टा इत्येतेषां प्रतिमासु पुष्पार्चनां कृतवती। 

  पत्रिकासमर्पणवेलायां प्रधानमन्त्री नरेन्द्रमोदी, भा ज पा अध्यक्षः जे पि नड्डा, वरिष्ठाः केन्द्रमन्त्रिणः राजनाथसिंहः, अमितशाहः, नितिन् गड्करी, पियूषगोयलः विविधराज्यानां मुख्यमन्त्रिणः इत्येषां सान्निध्यमभवत्।