OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 30, 2022

 महाराष्ट्रं - उद्धवताक्करे त्यागपत्रं समार्पितवान्। 

मुम्बई> बहुदिनानि यावत् अनुवर्तमानस्य राजनैतिकानिश्चितत्वस्य अन्ते महाराष्ट्रस्य मुख्यमन्त्री उद्धवताक्करे पदं त्यक्तवान्। शिवसेनादलस्य विमतानां पृच्छानुसारं विधानसभायां गुरुवासरे विश्वासमतप्रक्रिया करणीया इति राज्यपालस्य निर्देशं प्रति सर्वोच्चन्यायालयस्य प्रतिकूलविधिं समादृत्य एव सः त्यागपत्रं समार्पितवान्।

  २०१९ इति वर्षे शिवसेना, कोण्ग्रस्,एन् सि पि प्रभृतीनां  'महा विकास् अघाडि' इति सख्यस्य नेतृरूपेण उद्धवताक्करे वर्यः महाराष्ट्रस्य मुख्यमन्त्रिपदं स्वीकृतवान्। सार्धद्वयवर्षस्य प्रशासने शिवसेनानेता एकनाथ षिन्डे इत्यस्य नेतृत्वे भूरिशः सदस्याः विमताः अभवन्। भा ज पा दलेन सह प्रशासनं रूपीकर्तुं प्रयत्नः आरब्धः। तस्यानन्तरफलमेव अयं स्थानत्यागः।