OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 26, 2022

 'मेडिसेप्' याथार्थ्यं प्राप्नोति; अधिकमूल्यसमाहरणाय आदेशः दत्तः। 

अनन्तपुरी> केरलराज्ये सर्वकारसेवकानां सेवाविरतानां च कृते प्रख्यापिता मेडिसेप् नामिका स्वास्थ्यक्षेमपरियोजना प्रवृत्तिपथं प्राप्नोति। जूलाय् प्रथमदिनाङ्के आरभ्यमाणायाः परियोजनायाः उद्घाटनं मुख्यमन्त्री पिणरायि विजयः तस्मिन् दिनाङ्के एव करिष्यति। अस्यां परियोजनायां प्रतिसेवकात् ५०० रूप्यकाणि अधिकमूल्यरूपेण समाहर्तुम् आदेशः बहिरागतः। 

   सेवकानां जूण्मासस्य वेतनात् आरभ्य अधिकमूल्यं समाहरिष्यते। सेवाविरतेभ्यः अधुना चिकित्सासाह्यरूपेण लभमानानि ५०० रूप्यकाणि अधिकमूल्यरूपेण परिगणयिष्यन्ते। ११ लक्षं संख्याकाः सेवकाः सेवाविरताः तथा तेषां परिवाराङ्गाश्च अभिव्याप्य २७ लक्षं जनाः परियोजनायामस्याम् अन्तर्भवन्ति।