OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 8, 2022

अष्टादश रोगिणः अर्बुदरोगात् मुक्तिं प्राप्तवन्तः । परीक्षणौषधम् फलप्रदम्।


न्यूयोर्क्> चरित्रे इदंप्रथमतया अर्बुदरोगचिकित्सापरीक्षणे भागं स्वीकृताः सर्वे रोगिणः रोगात् मुक्तिं प्राप्तवन्तः। मलाशयार्बुदबाधिताः अष्टादश रोगिणः पूर्णतया रोगात् मुक्तिं प्राप्तवन्तःइति न्यूयोर्क् टैम्स् वार्तामाध्यमेन प्रतिवेदितम्। डोस्टार्लिमाब् नाम औषधं षण्मासं यावत् स्वीकृत्यानन्तरं सर्वेषु रोगिषु अर्बुदकोशाः अप्रत्यक्षाः जाताः इति न्यूयोर्क् टैम्स् वार्तामाध्यमेन प्रतिवेदितम्।