OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 20, 2022

 तटित्प्रहरः - त्रिषु राज्येषु २४ मरणानि। 

नवदिल्ली> रविवासरे प्रपन्नेन तीव्रेण तटित्प्रहरेण ओडीषा, बिहारं, छत्तीसगढ राज्येषु २४ जनाः मृत्युमुपगताः। 

  बिहारे १७ जनाः मृताः। भगत्पुरे जनपदे अष्ट ,वैशाल्यां त्रीणि, बङ्क, बगारिय जनपदयोः द्विक्रमेण, मुन्गर्, कतिहार्, मधेपुरं, सहर्सा जनपदेषु एकैकश्च मृत्युवशं गताः। 

  ओडीषायां महिलामभिव्याप्य चतुर्णां प्राणाः विनष्टाः। द्वौ व्रणितौ अभवताम्। छत्तीसगढे गरियाबाद् मुङ्गेलि भटपार जनपदेषु त्रयः विनष्टप्राणाः जाताः। सहस्पुरग्रामे चरन्तः ५२ अजाः अपि मृताः।