शबरिगिरि तीर्थाटकानां जीवनपरिरक्षा विधास्यते।
अनन्तपुरी> आगामिसप्ताहे आरप्स्यमाणे शबरिगिरितीर्थाटनकाले तीर्थाटकानां कृते तिरुविताकोट् देवस्वं बोर्ड् संस्थया द्विलक्षं रूप्यकाणां क्षेमपरिरक्षा [Insurance] विधास्यते। देवदर्शनाय परिनिश्चितस्य दिनस्य पूर्वेद्युः परेद्युश्च अभिव्याप्य दिनत्रयस्य परिरक्षा लप्स्यते। देवस्वं बोर्ड् संस्थायाः अध्यक्षः के जयकुमारः वार्ताहरसम्मेलने वृत्तान्तमिदं प्रस्तुतवान्।
पूर्वेद्युः शबरिगिरियात्रामध्ये संभाव्यमाणायां दुर्घटनायां जीवहानिः भविष्यति चेत् परिवाराय लक्षद्वयरूप्यकाणां परिरक्षाराशिः लप्स्यते। दर्शनदिने प्रतिनिवृत्तिदिने वा हृदयाघातमभिव्याप्य स्वाभाविकमरणाय अपि परिरक्षा लप्स्यते।
जीवनपरिरक्षायैः तीर्थाटकेभ्यः धनराशिः न स्वीक्रियते। देवस्वं बोर्ड् संस्थया सार्धैककोटिरूप्यकाणि अभियोजनायै एल् ऐ सि संस्थायै दास्यन्ते।