OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 15, 2026

 एष्या चषक ऊन-१९ क्रिकट्।

पाकिस्थानं विरुध्य भारतस्य त्रसितविजयः। 

किरीटप्राप्तौ भारतसंघस्य आह्लादः। 

मस्कट्> ऊन-१९ वयस्कानां 'एष्या कप्' क्रिकट्स्पर्धायाः अन्तिमप्रतिद्वन्द्वे भारतीयकौमारकाणां मोहनीयविजयः। ३३८ इति विजयलक्ष्यम् अनुगतवान् भारतसंघः अन्तिमे कन्दुके चतुष्कं सम्प्राप्य आसीत् त्रसितविजयं प्राप्तवान्। प्राप्ताङ्कसूचिका - पाकिस्थानं ५० क्षेपणचक्रेषु ३३७/९। भारतं - ५० क्षेपणचक्रेषु ३३९/९।

  विजेतुं भारतेन अन्तिमक्षेपणचक्रे अष्ट धावनाङ्काः प्राप्तव्याः आसन्। मोहित उल्वा  सि वेङ्कटा च ताडनक्षेत्रे। अन्तिमकन्दुकेन त्रयः धावनाङ्काः प्राप्तव्याः। तं कन्दुकं चतुष्कं कृत्वा मोहितः भारताय मोहनकिरीटं सम्मानितवान्। स एव क्रीडाश्रेष्ठः। आर्यवीर सेवागः क्रीडापरम्परायाः श्रेष्ठक्रीडकः अभवत्।