काश्मीरे अप्रत्यक्षौ आरक्षकौ भुषुण्डिप्रयोगेण हतौ।
पृष्ठतः हिस्बुल् भीकरसंघः।
जम्मु> जम्मु काश्मीरे किष्त्वारजनपदे बुधवासरे तिरोहितौ आरक्षकाधिकारिणौ [SPO] गोलिकाप्रहारेण मृताविति अधिगतौ। जम्मु-काश्मीरारक्षकसेनायाः सविशेष कर्तव्यनिर्वहणसंघे [Special Operation Group ] अङ्गौ बाबी चन्दः (५७), रश् पाल कुमारः (४५) इत्येतौ एव दारुणरीत्या मृतौ। गुरुवासरे प्रभाते दच्चन् काननान्तात् सुरक्षासेनया तयोः मृतदेहौ अधिगतौ।
हिस्बुल् भीकरसंघः घटनायाः उत्तरदायित्वं स्वीचकार। अपराधिनः कृते मार्गणमारब्धम्।