न्यायाधीशः सूर्यकान्तः भारतस्य मुख्यन्यायाधिपः अभवत्। .jpeg)
न्याया. सूर्यकान्तः शपथवाचनं करोति।
सप्त राष्ट्राणां मुख्यन्यायाधीशाः अतिथयः।
नवदिल्ली> भारतसर्वोच्चन्यायालयस्य ५३ तम मुख्यन्यायाधिपरूपेण न्यायाधीशः सूर्यकान्तः शपथवाचनमकरोत्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू शपथवाचनमकारयत्। सेवानिवृत्तस्य मुख्यन्यायाधिपस्य बि आर् गवायवर्यस्य स्थाने अस्ति सूर्यकान्तस्य स्थानोपलब्धिः।
भूट्टानं,केनिया, मलेष्या, ब्रसील्, मौरीष्यस्, नेपालं, श्रीलङ्का इत्येतेषां राष्ट्राणां मुख्यन्यायाधिपाः कार्यक्रमे सन्निहिताः आसन्। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथसिंहः इत्यादयः प्रमुखाः नेतारः भागमकुर्वन्।




.jpeg)
