OUR YouTube Channel 1. SampratiVartah |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Sunday, April 26, 2020
विषाणुव्यापनं येषु राष्ट्रेषु अनियन्त्रितया अनुवर्तते तेषु राष्ट्रेषु उपयोगाय श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति - ट्रम्पः।
वाषिङ्टण्> कोरोणा विषाणुव्यापनम् अनियन्त्रितया अनुवर्तमाने सन्द्रर्भेऽपि अन्यस्मै सौलभ्यं प्रकटीकरोति अमेरिक्कस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः। येषु राष्ट्रेषु अनियन्त्रितया नोवल् कोरोणा विषाणु व्यापनम् (कोविड्१९) अनुवर्तते, तेभ्यः राष्ट्रेभ्यः श्वसनयन्त्राणि प्रदास्यन्ति इति ट्रम्पः अवदत्। इदानीं स्वस्य राष्ट्रे अधिकतया यन्त्राणि सन्ति इति ट्रम्पः अवदत्। मेक्सिको, होण्डूरास्, फ्रान्स्, इट्टली, इन्दोनेष्य, स्पेयिन्, आदि राष्ट्रेभ्यः श्वसनसहायीनि यन्त्राणि प्रदास्यन्ति इति ट्रम्पः उक्तवान्।
‘मनोगतम्’ [०२.११] ‘मन की बात’ प्रसारण-तिथि: - २६-एप्रिल, २०२०
[भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | भवन्तः सर्वे lockdown-इति सञ्चाररोधे ‘मन की बात’-‘मनोगतं’ शृण्वन्ति | अस्य ‘मनोगत’-स्य कृते सम्प्राप्यमाणा परामर्श-दूरभाषाकारणानां संख्या, सामान्यतः अनेकधा अधिकास्ति | अनेकान् विषयान् स्वस्मिन् समाकलय्य, भवतामिदं ‘मनोगतम्’, मम पार्श्वे, आगतम् | मया प्रयतितं, यदहं एतान् विषयान् अधिकाधिकान् पठेयम्, शृणुयाम् च | भवतां वृत्तेभ्यः अनेके तादृशाः पक्षाः अवगताः, ये नाम दुष्करेsस्मिन् सङ्घर्षमये काले, सरलतया अवधातुं नैव शक्यन्ते | नूनं समीहे, यत् सङ्घर्षमयेsस्मिन् काले, प्रसार्यमाणे ‘मनोगते’, तान् एव काँचन् पक्षान्, भवद्भ्यः देशवासिभ्यः सम्विभाजयेयम्|
सखायः, कोरोना-विरोधि भारतीयं युद्धं वस्तुतस्तु people driven- इति जन-सञ्चालितमस्ति | भारते कोरोना-विरोधि युद्धं जनाः सञ्चालयन्ति, भवन्तः प्रवर्तयन्ति, जनैः सम्भूय शासनम्, प्रशासनञ्च सञ्चालयतः | भारत-सदृशः विशालोsयं देशः, यो हि विकासार्थं सततं प्रयतते, निर्धनतां विरुद्ध्य निर्णायक-सङ्घ
[भाषान्तरं – सर्वश्री-डॉ.श्रुतिकान्त-पाण्डेय-पुरुषोत्तम-शर्मभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
मम प्रियाः देशवासिनः, नमस्कारः | भवन्तः सर्वे lockdown-इति सञ्चाररोधे ‘मन की बात’-‘मनोगतं’ शृण्वन्ति | अस्य ‘मनोगत’-स्य कृते सम्प्राप्यमाणा परामर्श-दूरभाषाकारणानां संख्या, सामान्यतः अनेकधा अधिकास्ति | अनेकान् विषयान् स्वस्मिन् समाकलय्य, भवतामिदं ‘मनोगतम्’, मम पार्श्वे, आगतम् | मया प्रयतितं, यदहं एतान् विषयान् अधिकाधिकान् पठेयम्, शृणुयाम् च | भवतां वृत्तेभ्यः अनेके तादृशाः पक्षाः अवगताः, ये नाम दुष्करेsस्मिन् सङ्घर्षमये काले, सरलतया अवधातुं नैव शक्यन्ते | नूनं समीहे, यत् सङ्घर्षमयेsस्मिन् काले, प्रसार्यमाणे ‘मनोगते’, तान् एव काँचन् पक्षान्, भवद्भ्यः देशवासिभ्यः सम्विभाजयेयम्|
सखायः, कोरोना-विरोधि भारतीयं युद्धं वस्तुतस्तु people driven- इति जन-सञ्चालितमस्ति | भारते कोरोना-विरोधि युद्धं जनाः सञ्चालयन्ति, भवन्तः प्रवर्तयन्ति, जनैः सम्भूय शासनम्, प्रशासनञ्च सञ्चालयतः | भारत-सदृशः विशालोsयं देशः, यो हि विकासार्थं सततं प्रयतते, निर्धनतां विरुद्ध्य निर्णायक-सङ्घ
Saturday, April 25, 2020
आगामिनि अध्ययनवर्षे विद्यालयेषु मुखावरणम् अवश्यं धार्यम्।
तृश्शूर् > कोविड् व्यापनस्य परिसमाप्तिः यदि भविष्यति वा न वा, आगामिनि अध्ययनसंवत्सरे केरलस्य विद्यालयेषु छात्रैः अध्यापकैश्च मुखावरणम् अवश्यं धार्यमिति सर्वकारस्य स्वास्थ्यविभागेन आदिष्टम्। मेय् ३० तः पूर्वं केरलस्य सार्वजनीनविद्यालयेषु ५०लक्षं परिमितानां छात्राणां तत्रत्यानां शिक्षकाणां च कृते निःशुल्कतया मुखावरणं निर्मीय दातुं 'समग्र शिक्षा केरलं' नामिकां संस्थां निरदिशत्। तदर्थः व्ययः छात्राणां गणवेषनिधेः स्वीकर्तुम् अनुमतिः लब्धा।
Friday, April 24, 2020
सम्पूर्णपिधानम् - उत्तरभारते वायुमलिनीकरणस्य अनुपातः न्यूनत्वं प्राप्तः।
नवदहली> भारते कोविड्१९ प्रतिरोधाय सम्पूर्णपिधानं मेय् मासस्य ३ दिनाङ्कपर्यन्तं परिवर्तितमासीत्। एकमासात्मककालस्य सम्पूर्णपिधानस्य अवलोकनवेलायां कोविड्१९ व्यापननस्य प्रतिरोधेन सह प्रकृतेः संरक्षणकार्यमपि साधितं वर्तते। अनेन एकमासात्मककालेन उत्तरभारते वायुमलिनीकरणस्य अनुपातः गतविंशतिवर्षापेक्षया न्यूनत्वं जातः इति अमेरिक्कस्य बहिराकाशपठनकेन्द्रेण नासेन प्रस्तावितम्। सम्पूर्णपिधानं राष्ट्रस्य विविधप्रदेशेषु अन्तरीक्षमलिनीकरणस्य अनुपातं न्यूनीकर्तुम् अत्यन्तम् उपकारकम् अभवदिति नासकेन्द्रस्य वैज्ञानिकेन पवन् गुप्तेन अभिप्रेतम्। पिधानकारणतया मार्गेषु वाहनानां न्यूनत्वं तथा व्यावसायिकशालानां प्रवर्तनराहित्यं च अन्तरीक्षमलिनीकरणं न्यूनीकर्तुं सहायकमभवत्।
जम्मु काश्मीरे ४ भीकराः निहताः।
श्रीनगरं > जम्मु काश्मीरस्य षोपियानजनपदे गतदिने सुरक्षासेनया सह प्रतिद्वन्द्वे चत्वारः भीकराः हताः।
मेल्होरा प्रविश्यायां भीकराणां सान्निध्यं वर्ततेति सूचनानुसारं सुरक्षासेनया आरक्षकैः च कुजवासरे एव अन्वेषणमारब्धमासीत्। निलीनाः भीकराः कार्यसंघं विरुध्य नालिकाशस्त्रं प्रयुक्तवन्तः। तदनन्तरं सम्पन्ने प्रतिद्वन्द्वे भीकराः व्यापादिताः। मृतभीकराणां प्रत्यभिज्ञानप्रक्रिया अारब्धा।
कोविडीयकालस्य विद्यालयीयछात्राणां रचनाः
अक्षरवृक्षः प्रथमभागः प्रकाशितः।
![]() |
| 'अक्षरवृक्षस्य' प्रकाशनं केरलस्य मुख्यमन्त्री पिणरायि विजयः सांस्कृतमन्त्रिणे जि. सुधाकराय ददन् निर्वहति। |
अनन्तपुरी > कोविड्काले केरले सम्पूर्णपिधाने प्राप्ते विद्यालयीयछात्राः वृथा कालं नीतवन्तः नासन्। शिक्षाविभागस्य निर्देशं शिरसा वहन्तः तेषाम् अध्यापकानां प्रोत्साहने स्वकीयसर्गशक्तेः प्रकाशनाय प्रयतितवन्तः। कथा कविता लेखनरूपैः तेषां कोविड्कालचिन्ताः बहिरागताः। ताः डिजिटल् रूपेण स्वीकृतवत्यः विद्यालयस्थानां ऐ टि अध्यापकानां साह्येन 'स्कूल् विक्की' नामिकां डिजिटल् मासिक्यां निवेशिताः।
ताः रचनाः राज्यस्तरे क्रोडीकृत्य श्रेष्ठरचनाः निर्वाच्य केरलशैक्षिकविभागेन पुस्तकरूपेण प्रकाशिताः। कथा-कविता-लेखनविभागेषु त्रयः ग्रन्थाः प्रकाशिताः। तेषां प्रथमभागस्य प्रकाशनं मुख्यमन्त्री पिणरायि विजयः सांस्कृतिकमन्त्रिणे जि सुधाकराय समर्प्य कृतवान्। शिक्षामन्त्री प्रोफ. सि. रवीन्द्रनाथः, एस् ई आर् टि निदेशकः प्रोफ. प्रसादः इत्यादयः तस्मिन् कार्यक्रमे सन्निहिताः आसन्।
Wednesday, April 22, 2020
कोविड्१९ सान्निध्य निरीक्षणाय न्यूनमूल्येन भारतीयं संविधानम्।
कोविड् १९- आविश्वं दुर्दशा आगम्यमाना वर्तते।
यू एस् कृते अपि जाग्रतासूचना दत्तेति विश्वस्वास्थ्यसंघटनम्।
जनीवा > कोविड् महामारेः अतिदुष्टा दशा लोकैः अभिमुखीक्रियमाणा भवेदिति विश्वस्वास्थ्यसंघटनस्य [WHO] जाग्रतासूचना। "उच्यते यत् तद्विस्वसिहि ; आलोकं महती दुर्दशा आगम्यमाना भविष्यति।" जनीवस्थे 'हू'आस्थाने समायोजिते वार्ताहरसम्मेलने संघटनस्य निदेशकाध्यक्षः टेड्रोस् अथनोम् गब्रियेलः उक्तवान्। किन्तु प्रस्तावस्य विशदीकरणं तेन न कृतम्। संघटनस्य प्रवर्तनं सुतार्यमस्ति। विषाणुः अत्यन्तं विनाशकारी इत्यतः अस्मासु जायमाना मतभिन्नता अपि रोगनिर्व्यापने तस्य प्रतिरोधविषये च क्लिष्टतां जनयेत् - तेनोक्तम्। स्वास्थ्य, प्रतिरोधसंविधानेषु क्षीणविभवम् आफ्रिक्कामण्डलं विषाणोः आगामिप्रभवकेन्द्रमिति पूर्वमेव तेन सूचितमासीत्।
यू एस् कृते जाग्रतासूचना दत्ता।
चीनराष्ट्रे वुहाने कोरोणास्थिरीकरणस्य प्रथमदिनादारभ्य एव अमेरिक्कायै अपि जाग्रतासूचना दत्ता इति टेड्रोस् अथनेन उक्तम्। इतदधिकृत्य ट्रम्पेन उन्नीताः आरोपाः तेन निरस्ताः। अमेरिक्कातः किमपि वृत्तान्तं निलीतं कृतम्।
विषाणुव्यापननिरोधे प्रथमसोपाने स्वास्थ्यसंघटनस्य प्रवर्तने अलम्भावः जातः इति डोणाल्ड् ट्रम्पेन बहुवारमारोपितमासीत्।
जर्मनी देशः कोरोना-विषाणो: कारणात् क्षतिपूर्तिं विधातुं चीनराष्ट्रं द्वादश लक्षषं कोटिरूप्यकाणां देयकं प्रेषितवान्।
लण्टन् > चीनराष्ट्रस्य वुहानात् प्रसरितेन कोरोणा विषाणु-संक्रमणेन चीनराष्ट्रं विश्वस्य अनेकेषां देशानां निन्दां सम्मुखीकरोति। अमेरिकायाः यूरोपस्य च अनेकानि राष्ट्राणि चीनस्योपरि दोषारोपणं कृतवन्तः। जर्मनी देशेन चीनराष्ट्रं प्रति कोरोना-विषाणुना जायमानां हानिं पूरयितुं 130 अर्बुदम् पौंड (द्वादश लक्ष कोटिः रूप्यकाणि ) देयकं प्रेषितम्।
यूरोपस्य महाशक्ति - जर्मनी , फ्रांस , ब्रिटेन, अमेरिका च चीन राष्ट्रस्य सन्दिग्धभूमिकां निन्दयन्ति। जर्मन देशस्य सर्वोत्तम "बिल्ड" इति वार्ता पत्रम् एकम् "invoice" मुद्रितम् अकरोत् । अस्मिन् पत्रे वर्ण्यते यत् चीनदेशस्य राजधान्याम् "बीजिंग" नगरे बर्लिनस्य 130 अर्बुदम् पौंड (149 बिलियन यूरो) ऋणं विद्यते। जर्मनी देशे इतः पर्यन्तं संक्रमणस्य संख्या "त्रिचत्वारिंशदधिक-सप्तशतोत्तर-पञ्चचत्वारिंशत्सहस्राधिकैकलक्षं, सार्धचतुसहस्राधिकाश्च मृता: अभवन्।
लण्टन् > भारतस्य विविधेभ्यः वित्तकोशेभ्यः ९०००कोटि रूप्यकाणां ऋणं स्वीकृत्य राष्ट्रात् पलायितः मद्यराजः विजय मल्यः पुनरपि ब्रिट्टीष् उच्चन्यायालयेन प्रहरितः। प्रकरणस्य उपधार्थं मल्यं भारतं प्रतिनिवर्तयितुं अधोनीतिपीठस्य आदेशं विरुध्य मल्येन समर्पिता याचिका उच्चनीतिपीठेन निरस्ता। अनेन मल्यं भारतमानेतुं 'सि बि ऐ , ई डि संस्थयोः प्रयत्नाः सफलप्रायाः वर्तन्ते। पुनः यू के सर्वोच्चन्यायालयः एव मल्यस्य एकमात्रं शरणस्थानम्। तदर्थं १४ दिनानां कालः अनुमोदितः। सर्वोच्चनीतिपीठस्यापि विधिरपि मल्याविरुद्धः तर्हि भारत-यु के आदानप्रदानसन्ध्यनुसारं २८ दिनाभ्यन्तरे मल्यं भारताय प्रत्यर्पयिष्यति।
Tuesday, April 21, 2020
पि.पि.ई.स्यूतः ददातु! ब्रिटीश् प्रधानमन्त्रिणः पुरतः प्रतिषेधं प्रकाशितवती भारतीयवैद्या।
डा. विनोविन्
लन्डन्> वय्यक्तिकानि सुरक्षा उपकरणानि अलब्धानि इति आरोपयित्वा ब्रिटीश् प्रधानमन्त्रिणः कार्यालयस्य पुरतः प्रतिषेधं प्रकाशितवती भारतीयवैद्या। षण्मासगर्भा डा.मीनल् विस् एवं कोविड् महाव्याधिंविरुद्ध्य प्रतिरोधप्रवर्तने निमग्ना भवति।
राष्ट्रिय-स्वास्थ्य-सेवा-प्रवर्तने निमग्नानाम् उपयोगाय वय्यक्तिकानि सुरक्षा उपकरणानि न लभन्ते इति दोषारोपणेन सा प्रतिषेधं प्रकाशितवती। आतुरालय कर्मकराणां गणवेषं, मुखावरणं च धृत्वा 'स्वास्थ्यप्रवर्तकान् संरक्षयतु' इति आलेखितं स्फोरकफलकमपि स्वीकृत्य आसीत् तस्याःप्रतिषेधं। तुर्की देशात् वितरणे
Monday, April 20, 2020
इस्रायेलस्य प्रधानमन्त्रिणं नेतन्याहुं विरुद्ध्य २००० जनाः रथ्यायां मिलिताः।
![]() |
| चित्रम् AFP |
टेल्अवीव्> कोरोण विषाणुव्यापन-काले बञ्चमिन् नेतन्याहु जनतन्त्र विधानम् अपाकरोति इत्युक्तवन्तः इस्रायेलस्य द्विसहस्राधिकाः नागरिकाः रथ्यायां प्रतिषेधमेलनं कृतवन्तः। सामूहिक असन्निकर्षं पालयन्तः तेषां प्रतिषेधः विश्वस्य श्रद्धाकेन्द्रः अभवत्I अलीक-व्यवहारात् रक्षां प्राप्तुं कोरोणाकालं नेतन्याहुना दुरुपयोगं करोति इति उक्त्वा आसीत् प्रतिषेधः। मुखावरणं धृतवन्तः षट् पादमितान् दूरं परिपाल्यन्तः आसन् टेल् अवीव् नगरे प्रतिषेधसङ्गमाय आगतवन्तः।
भारते कोविड् बाधिताः १६,००० अतीताः ; मरणानि ५००।
दिल्ल्यां नवजातशिशुः मृतः।
महाराष्ट्रे स्वास्थ्यप्रवर्तकेषु रोगबाधा वर्धते।
नवदिल्ली > भारते कोविड्रोगबाधिताः १६,११६ वर्तन्ते। मृत्यमुपगतास्तु ५१९। ह्यः ३१ जनाः मृताः।
महाराष्ट्रे एव अधिकानि मरणानि अभवन् - १२। स्वास्थ्यप्रवर्तकेषु अपि रोगबाधा वर्धते इति आशङ्कां जनयति। नगरस्थेषु विविधेषु आतुरालयेषु उपत्रिंशत् वैद्याः २००अधिकाः अनुवैद्याः अपि कोविड्ग्रस्ताः वर्तन्ते। रोगग्रस्तासु अनुवैद्यासु १२० केरलीयाः सन्ति।
राष्ट्रराजधान्यां दिल्ल्यां रोगः अनियन्त्रितरीत्या व्याप्यते। प्रकटितलक्षणहीनेष्वपि विषाणुः स्थिरीक्रियते इत्यवस्था अस्ति। केवलं ४५ दिनवयस्कः नवजातः शिशुः अपि ह्यः कोविड्बाधया मृतः। भारते कोविडेन मृत्युं प्राप्नोतीति प्रथमः प्रकरणः भवत्येषः।
जपान् देशे तीव्रः भूकम्पः, भूकम्पमापिन्यां ६.९ इति सूचितं, सुनामि प्रत्यादेशः नास्ति।.
-डा.विनोविन्.वि.ए
टोकियो> जपान् देशे अतिशक्तः भूकम्पः अभवत्। भूकम्पमापिन्यां ६.९ इति सूचितः भूकम्पः जपानस्य पूर्व तटे संस्थिते ओगसवार द्वीपे अभवत्। भूकम्पाधिष्ठताः विनाशाः न अभवत्। जपानस्य वातावरण-निरीक्षण-केन्द्रस्य निगमनमनुसृत्य भूकम्पस्य प्रभवकेन्द्रः उत्तरे २७.२ डिग्रि अक्षांशस्य पश्चिमे १४०.७ डीग्रि रेखांशस्य च मध्ये ४९० कि.मी. अन्तर्भागे आसीत्। प्रादेशिक-समयः सायं काले ४.२६ तः भूकम्पः अनुभूतः। द्वीपे आहत्य चत्वारः भूकम्पाः अभवन्। भूकम्पानुबन्धतया जाग्रता निर्देशमपि न दत्तम्।Sunday, April 19, 2020
कोविडस्य आगामी प्रभवकेन्द्रम् आफ्रिक्का स्यादिति विश्वस्वास्थ्यसंस्था।
जनीवा > कोविड् - १९ विषाणोः आगामी प्रभवकेन्द्रम् आफ्रिक्का स्यादिति विश्वस्वास्थ्यसंघटनस्य [WHO] पूर्वसूचना। गतसप्ताहे आफ्रिक्कयीयराष्ट्रेषु कोरोणाबाधितानां संख्या आशङ्कया वर्धते इत्यस्याधारेण एवेदं निगमनम्।
एतावत्पर्यन्तं १८,००० जनाः रोगबाधिताः, उपसहस्रं मृताश्चाभवन् । इदानीं तु रोगव्यापनं नगरप्रदेशान् विहाय ग्रामग्रामान्तरेषु प्राप्तम्।
अवश्यानुसारं चिकित्साव्यवस्थायाः अभावः, प्रतिरोधप्रवर्तनाय धनसञ्चयस्य अपर्याप्तता च विषाणुव्यापनवर्धनस्य हेतुरिति ऐक्यराष्ट्रसभायाः 'इकणोमिक् कम्मीषन् फोर् आफ्रिक्का' नामिकया संस्थया सूच्यते।
महामारिं प्रतिरोधुं पर्याप्ताः प्रवातशय्याः [Ventilator] आफ्रिक्कायां कस्मिन्नपि राष्ट्रे न सन्तीति 'हू' संस्थायाः आफ्रिक्कामण्डलस्य निदेशका मात्षि डिसो मोय्ती नामिका उक्तवती।
Saturday, April 18, 2020
मृतानां सङ्ख्यायाम् अधिक योजनम् - चीनेन कृतं सर्वेऽपि कर्तव्यम् - विश्व स्वास्थ्य संस्था।
जनीव> कोरोणा रोगाणुव्यापनं यदा नियन्त्रणविधेयं भवति तदा सर्वाणि राष्ट्राणि चीनमिव कोविड् बाधया मृतानां गणनायाम् अधिकयोजनं करिष्यति इति विश्व-स्वास्थ्यसंस्थया विश्वासं प्राकटयत्। कोविड् बाधया मृतानां सङ्ख्यायाम् वुहान देशे ५०% वर्धितम् आसीत्। विगते दिने गणनायाः समवलेकनं कृत्वा चीनेन अधिकयोजनं कृतं च। किन्तु चीनस्य पदक्रमः संशयेन वीक्षयन्तः आसन् अन्ये राष्ट्राणि। एतेषां राष्ट्राणां संशयनिवारणाय विश्वस्वास्थ्य संस्थया चीनस्य अधिक-संख्यायोजनम् अनुकूल्य अभिमतं प्राकाशयत्।
कोविड् - आविश्वं मरणानि सार्धलक्षमतीतानि ; रोगबाधिताः २२ लक्षम्।
अमेरिक्कायां अवस्था कष्टतरा।
वाषिङ्टण् > आविश्वं कोव्ड्रोगबाधिताः २२लक्षमतीताः। १,५०,६२३ जनाः मृत्युमुपगताः। अमेरिक्कायां गत२४होराभ्यन्तरे ४५९१ जनाः कोविड्रोगबाधया मृताः। तत्र अवस्था आशङ्काजनका वर्तते।
केवलममेरिक्कायाम् इतःपर्यन्तं मरणानि ३४,७०५ अभवन्। रोगबाधिताश्च ६,७९,७६२ भवन्ति। स्पेयिने १,८४९४८ रोगबाधितेषु १९,३१५ जनाः कालयवनिकां प्राप्ताः। इट्टली, फ्रान्स्, जर्मनी, ब्रिट्टन् इत्येतेषु यूरोपीयराष्ट्रेषु एकैकेषु लक्षाधिकाः रोगिणः सन्ति।
केरलं मण्डलानि विभज्य उपशान्तिप्रक्रमाः।
अनन्तपुरी > कोविड्रोगव्यापनस्य परिमाणमालम्ब्य केरलराज्यं चत्वारि मण्डलानि विभज्य पिधाने उपशान्तिप्रक्रमाः सर्वकारेण विज्ञापिताः। कासर्गोड्, कण्णूर् , कोष़िक्कोड् , मलप्पुरम् इत्येतानि जनपदानि 'रक्तमण्डल'मिति कृत्वा मेय् तृतीयदिनाङ्कपर्यन्तं संपूर्णं पिधानमनुवर्तिष्यते। पत्तनंतिट्टा, एरणाकुलं, कोल्लं जनपदेषु [ओरञ्च् - ए मण्डलं] एप्रिल् २४ परं , आलप्पुष़ा, तिरुवनंतपुरं, पालक्काट्, वयनाट्, तृश्शूर् जनपदेषु [ओरञ्ज् - बी मण्डलं] २० दिनाङ्कात् परं च पिधाने भागिकतया शिथिलीकरणानि अनुमोदितानि। 'हरित मण्डल'मिति निर्णीतयोः कोट्टयम्, इटुक्की जनपदयोः एप्रिल् २० परं सम्पूर्णोपशान्तिः प्रख्यापितः।
प्रस्तुतदिनाङ्केभ्यः परं तत्तथोक्तजनपदेषु निजीयवाहनेभ्यः , नगरप्रदेशेषु बस् यानेभ्यश्च उपाधिसहिता अनुमतिः दत्ता।
Friday, April 17, 2020
तृशूर् > दक्षिणभारतस्य अतिप्रशस्तः 'तृशूर् पूरं' नामकः मन्दिराघोषः कोविड् प्रतिरोधस्य अंशतया अस्मिन् संवत्सरे पूर्णतया परित्यक्तः। मेय् द्वितीयदिनाङ्के अस्त्ययमुत्सवः। भारते संपूर्णपिधानं मेय् ३ पर्यन्तं दीर्घीकृतम् इत्यस्य आधारे तिरुवम्पाटि पारमेक्काव् देवस्वप्रतिनिधयः मन्त्रिणः जनपदाधिकारी इत्यादीनां नेतृत्वे आयोजिते उपवेशने आसीदयं निर्णयः।
शक्तन् तम्पुरान् महाराजेन व्यवस्थापितं ४८ होरापरिमितं यावत् अनुवर्तमानं 'पूरं' पूर्णतया परित्यक्तुं निर्णयः इदंप्रथममेव। इतःपूर्वं त्रिवारं पूरं नाममात्रं सम्पन्नम्। १९४८ तमे वर्षे महात्मागान्धिनः निहननं, १९५७ तमे ध्वनकाघोषनियन्त्रणं , १९६३ तमे भारत-चीनयुद्धं च आलक्ष्य आसीत् नाममात्रेण पूरमायोजितम्। किन्तु अस्मिन् वर्षे मन्दिरेषु पूजादयः आचाराः एव भवेयुः। तिरुवम्पाटी, पारमेक्काव् मन्दिराभ्यां विना अष्ट इतराणि समीमस्थानि मन्दिराणि च अस्मिन् पूरे भागं वहन्ति।
'इलञ्ञित्तरमेलं' नामकं लोकोत्तरं पञ्चेन्द्रियसुखदं तालैक्यं [ विश्वस्य नयनाभिरामदृश्येषु अन्यतममिति युनस्कोसंस्थया प्रकीर्तितं 'कुटमाट्टम्' इत्याख्यं छत्रपरिवर्तनं , रात्रेः अन्त्ययामेषु सम्पद्यमानं नयनाभिरामं ध्वनकमालाविस्फोटनं च आस्वदितुं वैदेशिकान् अभिव्याप्य दशसहस्रशः जनाः तृश्शूरे वटक्कुन्नाथमन्दिरम् उपयान्ति। सहस्रशानां जनानां कर्मकराणां च उपजीवनमार्गश्च अस्त्ययमाघोषः। एतत्सर्वं कोरोणाव्यापनस्य हेतुना स्थगितं जायते।
समुद्रे परिभ्रमन्तः २४ रोहिंग्य अभ्याभयार्थिनः अनशनतया मृताः।
-डा. विनोविन् .वि. ए
धाक्का> बङ्ग्लादेशस्य समुद्रभागे स्थगिताः २४ रोहिंग्य अभयार्थिनः बुभुक्षया मृत्युं प्राप्तवन्तः इति आवेदनम्। मलेष्याराष्ट्रं प्रति गच्छन्तः एते जनाः कतिपय सप्ताहान् यावत् उपसमुद्रभागे स्थगिताः अभवन्I ३८२ जनाः बंगलादेशस्य तीर-संरक्षणसेनया रक्षिताः इति आवेद्यते। मासद्वयं यावत् अनशनतया बुभुक्षया एते मृताः इति रोयिट्टेर्स् वार्ता संस्थया आवेदितम्।
बङ्गलादेशस्य तीरसंरक्षणसेनया विगते बुधवासरे रात्रौ दक्षिण-पूर्व-तटे एते दृष्टवन्तः।
ते बङ्ग्लादेशस्य दक्षिणपूर्व तटस्य अभयार्थी शिबिरात् मलेष्यं लक्ष्यीकृत्य गतवन्तः आसन्। किन्तु मलेष्य सर्वकरेण कोरोण महाव्याधि-व्यापनानुबन्धतया कृतान्वेषणयोः मध्ये ते मलेष्यस्य तीरं प्राप्तुं अशक्ताः अभवन् इति प्रादेशिकवार्ता-माध्यमेन आवेदितम्।
Thursday, April 16, 2020
विश्वस्वास्थ्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम्।
-विनोवन्
वाषिङ्टण्> विश्वारेग्यसंस्थायै दीयमानम् आर्थिकसाहाय्यम् अमेरिकेन स्तगितम् इति अमेरिकस्य राष्ट्रपतिः डोणाल्ड् ट्रम्प् उक्तवान्। कोरोणामहाव्याधिं विरुध्य प्रतिरोधप्रवर्तने विश्वस्वास्थ्य संस्थया विलम्बः कृतः इति वार्ता सम्मेलन वेलायां तेन उक्तम्। कृत्यनिर्वहणे विश्वस्वास्थ्यसंस्था पराजिता अभवत्। महाव्याधि व्यापनानन्तरं विश्वस्वास्थ्यसंस्थया स्वस्याः पराजयं आच्छादितं च। एतस्याः घटनायाः उत्तरदायित्वं संस्थायै एव इत्यपि तेन उक्तम्। अस्य विषाणोः विश्वव्यापनकाले अपि अणुसन्तरणात् पूर्वं लब्धान् विवरणान् रहसि निधाय चीनं केन्द्रीकृत्य प्रवर्तनं कर्तुं उत्साहः प्रदर्शितः इति ट्रम्पेण दोषारोपः कृतः।Wednesday, April 15, 2020
कोष़िक्कोट् > केरलं कोविड् प्रतिरोधे अन्ताराष्ट्रप्रशस्तियुक्तां सफलतां प्रापयत् तथापि जनैः द्वितीयं व्यापनं प्रति जाग्रता करणीया इति राज्यस्थस्वास्थ्यविभागः पूर्वसूचनामदात्। द्वितीयव्यापनं कदाचित् तृतीयव्यापनमपि सम्भवेदिति एतादृशसंपर्कव्याधीनां सविशेषता अस्ति। चीनः, सिङ्गप्पूर्, जप्पान् इत्यादिषु राष्ट्रेषु कोविडस्य द्वितीयव्यापनं आरब्धदृष्टमस्ति।
केरले द्वितीयव्यापनस्य साध्यता एवमस्ति।
१. यदा विदेशात् रोगबाधिताः आगच्छन्ति तदा।
२. समीपराज्येषु अणुबाधा तीव्रतरा इत्यस्मात् व्यापनसाध्यता अधिकमस्ति।
३. विषाणुबाधा सत्यपि अप्रकाश्यमानलक्षणाः जनाः बहवः समाजे भवेयुः। तेभ्यः रोगबाधा स्यात्।
अतः कञ्चित्कालं यावदपि नितान्तजाग्रता आवश्यकी।
भारते मेय् मासस्य तृतीयदिनाङ्कपर्यन्तं रेल् यानसेवा न भविष्यति।
-डा.विनोविन्
नवदिल्ली> भारतदेशे सम्पूर्णपिधानं दीर्घितम्। अत एव रेलयाना सेवायाः पुनरारम्भः मेय् तृतीयदिनाङ्कानन्तरं स्यात् इति रेल् अधिकारिणम् उद्घृत्य पि टि ऐ वार्तासंस्थया आवेदितम्। एप्रिल चतुर्दश दिनाङ्के अर्धरात्रीसमयपर्यन्तं प्रथमतया रेलयानसेवा निरुद्धधा आसीत्। तावदेव इदानीम् मेय् तृतीयदिनाङ्कपर्यन्तं निरुद्धधा। मेयिल्, एक्स्प्रस्, पासञ्चर्,मेट्रो रेल् च मेय् तृतीय दिनाङ्के अर्धरात्रीपर्यन्तं न धावनं करिष्ये।
Subscribe to:
Comments (Atom)

















