पाकिस्थानं भीकरवादस्य प्रभवकेन्द्रम् - एस् जयशङ्करः।
यू एन्> आगोल भीकरवादस्य प्रभवकेन्द्रम् इति रूपेण विश्वं पाकिस्थानं पश्यतीति भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः आरोपितवान्। देशस्य एतद्दोषं परिहृत्य उत्तमप्रातिवेशिकरूपेण भवितुं सः पाकिस्थानमुपादिशत्।
'आगोलभीकरविरुद्धव्यवहारः - प्रतिसन्धयः परिहारश्च' इति विषये यू एन् रक्षासमित्यां सम्पन्ने समारोहे अध्यक्षपदमलंकृत्यानन्तरं वार्ताहरान् प्रति भाषमाणः आसीत् भारतविदेशकार्यमन्त्री। अफ्गानिस्थाने तालिबानस्य सहकारित्वेन अल् खायिदया क्रियमाणेषु आतङ्कवादप्रवर्तनेष्वपि रक्षासमित्याम् आशङ्का प्रकटिता इति जयशङ्करेणोक्तम्।

.jpg)
.jpg)






.webp)

.webp)