सन्तोष् ट्रोफी किरीटं वंगदेशाय।
हैदराबादः> सन्तोष् ट्रोफी पादकन्दुकक्रीडायां पश्चिमवंगदलः विजेता। अन्तिमस्पर्धायां १ - ० इति क्रमेण केरलदलं पराजयत। स्पर्धायाः अन्त्यनिमिषे वंगस्य रोबिन् हन्सडेनैव लक्ष्यकन्दुकं प्राप्तम्।
मुण्टक्कै-चूरल्मला भूस्खलनम् अतितीव्रमिति केन्द्रसर्वकारस्य सम्मतिः।
नवदिल्ली> २०२४ आगस्ट् मासे केरले वयनाट्जनपदे दुरापन्नः भूस्खलनदुरन्तः अतितीव्रस्वभावयुक्तः इति दुरन्तस्य १५६ तमे दिने केन्द्रसर्वकारस्य सम्मतिः। विषयमिदं केन्द्रगृहमन्त्रालयः राज्यसर्वकारम् औद्योगिकरीत्या न्यवेदयत्।
अनेन केन्द्रसर्वकारात् अधिकसाहाय्यं लब्धुं मार्गः जातः। केरलं पुरस्कृत्य केन्द्रसर्वकारस्य इदं प्रख्यापनं महतः आश्वासस्य विषयः अस्ति। विविधाभ्यः पुनरधिवासप्रक्रियाभ्यः ऊर्जप्रदायकं भवति।
चीनदेशेन विश्वस्य शीघ्रतमम् बुल्लेट्-रेल्यानम् समारब्धम्।
चीनदेशेन समारब्धं बुल्लेट् रेल्यानं होरायां ४५० किलोमीटर् वेगेन गमनं कर्तुं समर्थं CR ४५० इत्यस्य प्रोटोटाइप्- स्वरूपः लोकार्पितः। नवीनः एषः बुलेट्-रेल्यानं न केवलं यात्राकालं न्यूनं करोति अपि च इतरयोः देशयोः सम्बन्धने गुणवत्ताम् अपि वर्धयति।
यद्यपि उच्चगतिरेल्यानानि चीनाय आर्थिकदृष्ट्या लाभजनकानि न सन्ति, एतावता केवलेन बीजिङ्-शाङ्घाय-रे ल्यानसेवा एव लाभं प्रदत्तवती। तथापि, चीनादेशः वदति यत् लाभात् परम् एतानि बुलेट्-रेल्यानानि राष्ट्रस्य आर्थिकसामाजिकविकासे महत्त्वपूर्णं योगदानं कुर्वन्ति इति।
भारतस्य 'स्पैडक्स्' परीक्षणे विजयः।
![]() |
| भारतेन ह्यः विक्षिप्तः पि एस् एल् वि - सि ६० उपग्रहः। |
श्रीहरिक्कोट्टा> बहिराकाशपेटकानि भूमेः भ्रमणपथे संयोजितुं विभक्तुं चोद्दिश्य भारतेन विकसिता 'स्पैडक्स्' नामिका साङ्केतिकविद्या विजयप्रदा अभवत्। स्पैडक्स् परीक्षणाय द्वौ लघूपग्रहौ ऐ एस् आर् ओ संस्थायाः ध्रुवीयविक्षेपणवाहनेन [पि एस् एल् वि - सि६०] गतरात्रौ भ्रमणपथं प्राप्तौ। एताभ्यां सह बहिराकाशगवेषणार्थं २४ उपकरणानि च विक्षिप्तानि।
बहिराकाशपरीक्षणनिलयस्य [Space Docking] प्रथमसोपानमेव सोमवासरे पूर्तीकृतमिति ऐ एस् आर् ओ संस्थायाः अध्यक्षः एस् सोमनाथः अवदत्। कुजवासरे उपग्रहद्वयमपि परस्परं २० कि मी अन्तरे एकेनैव भ्रमणपथेन भूमिं प्रदक्षिणं करिष्यति। तदनन्तरमेतयोरन्तरं न्यूनीकृत्य द्वावुपग्रहौ संयोक्ष्यति। तदर्थं सप्त दिनानि अपेक्षितानीति सोमनाथेनोक्तम्।
विश्व महिला द्रुतचतुरङ्गः
भारतस्य कोनेरू हम्पी विश्वविजेत्री।
न्यूयोर्क्> अमेरिक्कायां सम्पन्नायां महिलानां विश्वद्रुतचतुरङ्गस्पर्धापरम्परायां भारतस्य कोनेरू हम्पी [३७] इति आन्ध्रप्रदेशीया विश्वकिरीटधारिणी जाता। दोम्मराजू गुकेशेन चतुरङ्गस्य विश्ववीरतापदं भारतमानीय कतिपयदिनाभ्यन्तरे महिलानां द्रुतचतुरङ्गकिरीटमपि भारतं प्राप्तमित्येतत् द्विगुणीकृतमधुरस्य अनुभवः।
वीरतापरम्परायाः अन्तिमचक्रे इन्डोनीष्यायाः ऐरिन् सुकन्दर् इत्येतं पराजित्य एव सार्धाष्टाङ्कान् सम्प्राप्य लोकविजेत्री अभवत्। द्वितीयवारमेव हम्पी विश्वविजयिनी भवति। २०१९ तमे वर्षे मोस्को मध्ये आसीत् प्रथमकिरीटप्राप्तिः।
सन्तोष् ट्रोफी - अन्तिमस्पर्धायां वंग- केरलप्रतिद्वन्द्वः। 
केरलाय अनुस्यूतत्रितयं प्राप्तवतः मुहम्मद रोषनस्य मित्राणामभिनन्दनम्।
हैदराबादः> श्वः सम्पद्यमाने सन्तोष् ट्रोफी पादकन्दुकस्पर्धापरम्परायाः अन्तिमप्रतिद्वन्द्वे केरलं पश्चिमवंगेन सह स्पर्धिष्यते। ह्यः सम्पन्ने पूर्वान्त्यस्पर्धायां सर्वीसस् दलं ४ -२ इति लक्ष्यकन्दुकक्रमेण पराजित्य वंगदलः अन्तिमस्पर्धां प्राविशत्। अन्यस्मिन् प्रतिद्वन्द्वे केरलेन मणिप्पुरदलः ५ - १ इति लक्ष्यकन्दुकक्रमेण पराजितः।
केरलस्य क्रीडकः मुहम्मद रोषनः अनुस्यूतत्रयं लक्ष्यकन्दुकं [हाट्रिक्] सम्पादितवान्। नसीब रह्मानः, मुहम्मद अज्सलः इत्येतौ केरलस्य अन्ये लक्ष्यकन्दुके प्राप्तवन्तौ।
दक्षिणकोरियायां विमानदुर्घटना - १७९ जनाः मृत्युमुपगताः।
द्वौ अद्भुतेन रक्षितौ। 
विमानप्रज्वलस्य दृश्यम्।
सोल्> दक्षिणकोरियायां मूवान् अन्ताराष्ट्रविमाननिलये अवतरणवेलायां विमानपथात् स्रंसितं विमानं सुरक्षाभित्तिमभिघात्य प्रज्वाल्य १७५ यात्रिकाः चत्वारः विमानसेवकाश्च मृत्युमुपगताः। द्वौ विमानसेवकौ अद्भुतरीत्या रक्षां प्राप्तवन्तौ। 'जेजु एयर्' संस्थायाः बोयिंग् ७३७-८०० इति विमानमेव दुर्घटितम्।
ताय्लान्ट् राजधान्यां बाङ्कोके सुवर्णभूमि अन्ताराष्ट्रियविमाननिलयात् मूवानं प्रति प्रस्थिते विमाने द्वौ अपहाय सर्वे कोरियाजनाः आसन्। यात्रासमये विमानं प्रति कश्चन पक्षी अभिघट्टितः इति कस्यचन यात्रिकस्य शब्दसन्देशः बहिरागतः इति 'न्यूस्- १' इति वृत्तान्तमाध्यमेन सूच्यते। विमानस्य पृष्ठस्थाने उपविष्टौ द्वावेव रक्षां प्राप्तौ।
मन्मोहनस्य वियोगे गुटेरस् बैडनश्च अनुशोितवन्तौ।
सान्फ्रान्सिस्को> भूतपूर्वप्रधानमन्त्रिणः मन्मोहन् सिंहस्य देहवियोगे यू एन् सचिवप्रमुखः अन्टोणियो गुटरसः, यू एस् राष्ट्रपतिः जो बैडनश्च अनुशोचितवन्तौ।
भारतस्य आर्थिकविधानरूपीकरणे मन्मोहनसिंहः निर्णायकं भागं गृहीतवानिति अनुशोचनसन्देशे गुटरसेन प्रस्तुतम्। तथा च तस्य शासनकाले संयुक्तराष्ट्रसभां प्रति च शक्तं सौहार्दमभवदिति च तेनोक्तम्।
मन्मोहनसिंहस्य नयतन्त्रदर्शनं राजनैतिकवीक्षणं च भारत-यू एस् राष्ट्रयोर्मध्ये उभयपक्षसंबन्धं सम्पुष्टमकरोदिति जो बैडनेन प्रस्तुतम्।
असर्बैजान विमानदुर्घटनायां क्षमां याचित्वा पुतिनः।
मोस्को> ३८ जनानां मृत्युहेतुभूतायां विमानदुर्घटनायाम् असर्बैजानस्य राष्ट्रपतिम् इल्हाम अलियेवं रूसराष्ट्रपतिः व्लादिमिर् पुतिनः क्षमामयाचत। रष्यायाः व्योममण्डले आसीत् दुर्घटना जाता इत्यत एव क्षमायाचनम्।
प्रत्युत, विमानं प्रति अग्निबाणाक्रमणं कृतमिति अभ्युपगन्तुम् उत्तरदायित्वं स्वीकर्तुं वा पुतिनः न सज्जः। ६७ यात्रिकैः सह बाकु इत्यस्मात् ग्रोस्नियां गतवत् असर्बैजानस्य विमानं रष्यायाः मिसैल् आक्रमणेन भञ्जितमिति वृत्तान्तमासीत्।
कृषकनेतुः जज्जितसिंहदलेवालस्य निराहारसत्याग्रहः; सर्वोच्चन्यायालयेन मध्यस्थता कृता।
कृषकनेतुः जज्जितसिंहदलेवालस्य निराहारसत्यग्रहस्य प्रसङ्गे सर्वोच्चन्यायालयेन हस्तक्षेपं कृतम्। दलेवालं चिकित्सालयं प्रति नेतुं पञ्जाबस्य शासनं प्रति सर्वोच्चन्यायालयेन आदेशः प्रदत्तः। एतदर्थं पञ्जाबशासनं मासस्य एकत्रिंशत् दिनाङ्कपर्यन्तं कालं समायाचितम्। दलेवालस्य स्वास्थ्यदशा दुरितस्थितिं प्राप्ता अस्तीत्यतः न्यायालयेन एषः हस्तक्षेपः कृतः। न्यायाधिपौ सूर्यकान्तः उज्जलभूयानः च संयुक्ततया एषः आदेशः प्रदत्तः।
केन्द्रसर्वकारस्य कृषकविरोधिनी नीतिः इति दोषारोपेन खनौरिनगरे जज्जितसिंहदलेवालेन एकमासात् अधिकं कालं यावत् निराहारसत्यग्रहः आरब्धः। पञ्जाबस्य शासनं वदति यत् दलेवालं चिकित्सालयं प्रति नेतुं प्रयासाः अस्याः कृषकसमूहस्य विघ्नेन वर्तते। अपि तु न्यायालयेन उक्तं यत् दलेवालं चिकित्सालयं प्रति नेतुं विघ्नं कुर्वद्भ्यः कृषकनेतृभ्यः आत्माहुति-प्रेरणा इति अपराधः आरोपितः भविष्यति।
मन्मोहनसिंहस्य अन्त्येष्टिकर्माणि अद्य।
अनुशोच्य लोकनेतारः राष्ट्रनेतारश्च।
राष्ट्रे साप्ताहिकम् औद्योगिक दुःखाचरणम्। 
राष्ट्रपतिः द्रौपदी मुर्मू मन्मोहनसिंहस्य भवनं प्राप्य आदराञ्जलिं समर्पयति।
नवदिल्ली> गुरुवासरे रात्रौ दिवंगतस्य भारतस्य पूर्वप्रधानमन्त्रिणः मन्मोहनसिंहस्य अन्त्येष्टिकर्माणि अद्य प्रभाते एकादशवादने दिल्ल्यां यमुनातीरस्थे निगमबोधघट्टे सम्पत्स्यते।
श्वासकोशानुबन्धरोगेण दिल्ली एयिंस् आतुरालये परिचर्यायां सन्तः मन्मोहनसिंहस्य अन्त्यसमये पत्नी गुर् शरणकौर्, अपत्यानि उपीन्दरः, दमनः, अमृता , कोण्ग्रसदलस्य नेत्री प्रियङ्कागान्धी च समीपमासन्।
अद्य कोण्ग्रस् दलस्य राष्ट्रियास्थाने सामाजिकदर्शनानन्तरं मन्मोहनसिंहस्य अन्त्यक्रियाः सम्पत्स्यते। राष्ट्रे सर्वत्र साप्ताहिकम् औद्योगिक दुःखाचरणं विहितम्। अद्य मध्याह्नं यावत् केन्द्रीय-राज्यसर्वकारसंस्थानां कृते विरामः प्रख्यापितः।
सन्तोष् ट्रोफि - बङ्गालः, मणिपुरं पूर्वान्त्यं प्रविष्टवन्तौ।
केरल-जम्मुकश्मीरं, मेघालय-सर्वीसस् प्रतिद्वन्द्वौ अद्य।
हैदराबादः> ओडीशां ३ - १ इति लक्ष्यक्रमेण पराजित्य भूतपूर्ववीरदलः पश्चिमवंगः सन्तोष् ट्रोफि पादकन्दुकस्पर्धापरम्परायाः पूर्वान्त्यचक्रं प्राविशत्। अन्यस्मिन् प्रतिद्वन्द्वे दिल्लीं पराजित्य मणिपुरं पूर्वान्त्यचक्रं प्रविवेश। अधिकसमयं यावत् दीर्घिते प्रतिद्वन्द्वे ५ - २ इति क्रमेणैव मणिपुरस्य विजयः।
अद्यापि द्वे चतुर्थांशस्पर्धे विद्येते। अपराह्ने २. ३० वादने केरल-जम्मुकश्मीरदलयोः स्पर्धा भविष्यति। मेघालय-सर्वीसस् प्रतिद्वन्द्वः सायं ७. ३० वादने च भविष्यति।
भूतपूर्वप्रधानमन्त्री डो मनोमोहनसिंहः दिवंगतः।
नवदिल्ली> भारतस्य भूतपूर्वप्रधानमन्त्री , भारतेन दृष्टः श्रेष्ठः आर्थिककुशलः डो मनोमोहनसिंहः [९२] दिवंगतः। दिल्ल्यां एयिंस् आतुरालये श्वासरोगबाधितः सन् परिचर्यायामासीत्।
भारतस्य आर्थिकपरिष्करणस्य सूत्रधारः आसीत् डो मनोमोहनसिंहः। २००४ आरभ्य दशसंवत्सराणि सः भारतस्य प्रधानमन्त्रिपदे व्यराजत। ततः पूर्वं १९८२ - ८५ पर्यन्तं रिसर्वबाङ्कस्य पालनाधिकारी आसीत्।
एम् टि वर्यस्य वियोगे प्रधानमन्त्रिणः राष्ट्रपतेश्च अनुशोचः।
सहस्राणाम् अन्त्याञ्जलिः ; अन्येष्टिक्रियाः पञ्च वादने।
कोष़िक्कोट्> ह्यः रात्रौ दिवंगतस्य एम् टि वासुदेवन् नायर् वर्यस्य देहवियोगे केरलं दुःसन्तप्तहृदयेन अन्त्योपचारान् करोति। कोष़िक्कोट् कोट्टारं मार्गस्थं सितारा नामकं भवनं प्रति सहस्रशः जनाः प्रवहन्ति।
प्रधानमन्त्री नरेन्द्रमोदी , राष्ट्रपतिः द्रौपदी मुर्मू च तस्य अक्षरकुलपतेः देहवियोगे अनुशोचिवन्तौ। साहित्यलोकस्य राष्ट्रियनष्ट इति राष्ट्रपतिना सामाजिकमाध्यमे सूचितम्। पार्श्ववत्कृतानां निश्शब्दजनानां कृते एम् टि वर्येः स्वतूलिकां चालिवानिति प्रधानमन्त्री 'एक्स्' माध्यमे सूचितवान्।
१९३३ तमे वर्षे पालक्काट् जनपदे कूटल्लूर् ग्रामे एम् टि वासुदेवन् नायर् वर्यः जनि
न्यून-संख्यामूल्यानां मुद्रापत्रस्य अलब्धिः।
![]() |
| अङ्कमालीस्थे पञ्जीकरणकार्यालयस्य समीपात् |
गोश्रीपुरम् (कोच्ची)> न्यून-संख्यामूल्यानि मुद्रापत्राणि लब्धुं वर्तमानकाले अतिक्लेशः अनुभूयते। सहस्ररूप्यकेभ्यः न्यूनमूल्यानां मुद्रापत्राणां दौर्लभ्यं प्रचलति। अधुना, न्यूनमूल्यानि मुद्रापत्राणि केवलं अन्तर्जालसुविधायाः माध्यमेन एव प्राप्यन्ते, किन्तु तेषां वितरणकेन्द्राणां अल्पता जनानां कृते महान् क्लेशः जनयति। अतः पत्रस्य लब्ध्यर्थं जनाः दिनानि बहूनि व्ययीकरणीयानि भवन्ति। कदाचित् अन्तर्जालसुविधायाः मन्दता अलब्धिः च समयहानिं जनयति। अतः अस्य समस्यायाः समाधानाय, जनसेवा-केन्द्रद्वारा वा सि.एस्.सी. केन्द्रद्वारा वा अन्तर्जालमुद्रापत्रस्य वितरणं सुगमं करणीयम्।
पञ्च राज्येषु राज्यपालाः परिवर्तिताः।
केरलस्य नूतनराज्यपालः राजेन्द्र आर्लेकरः।
केरलस्य नूतनराज्यपालः राजेन्द्र आर्लेकरः।
नवदिल्ली> केरलमभिव्याप्य पञ्च राज्येषु राज्यपालाः परिवर्तिताः। केरलं विना बिहारं, मणिपुरं, ओडीशा, मिसोरामः इत्येतेषु राज्येषु नूतनराज्यपालाः नियुक्ताः। केरल बिहार राज्ययोः राज्यपालौ मिथः परिवर्तितौ।
केरलात् आरिफ मुहम्मद खानः बिहारे, तत्रत्यः राजेन्द्र आर्लेकरः केरले च नियुक्तौ।
संघर्षभरिते मणिपुरे भूतपूर्वगृहसचिवः अजयकुमार भल्लः नियुक्तः। मिसोरामस्य वर्तमानीनराज्यपालः हरिबाबु कम्भम्पतिः ओडीशायां नियुक्तः। मिसोरामे भूतपूर्वकेन्द्रमन्त्री जनरल् वि के सिंहः राज्यपालो भविष्यति।
कैरलीसाहित्यकुलपतिः एम् टि वासुदेवन् नायर् दिवंगतः।
कोष़िक्कोट्> केरलस्य साहित्यकुलपतिः एम् टि वासुदेवन् नायर् [९१] अद्य रात्रौ दशवादने दिवंगतः। वरिष्ठः कथाकारः, अतुल्यः आख्यायिकाकारः, श्रेष्ठः चलच्चित्रकथारचयिता, असामान्यः चलच्चित्रनिदेशकः इत्येवं कैरलीवाङ्मये व्यक्तिमुद्राम् अङ्कितवान् एम् टि महोदयः दशदिनानि यावत् आतुरालये परिचर्यायामासीत्।
एम् वर्यस्य अन्त्येष्टिक्रियाः श्वः - गुरुवासरे - कोष़िक्कोट् नगरस्थे स्वभवने सम्पत्स्यते।
यू एन् शान्तिसेनायाः कार्यवाहकः सर्वसैन्यनायकः अमिताभझा दिवंगतः।
यू एन् शान्तिसेनायाः कार्यवाहकः सर्वसैन्यनायकः ब्रिगेडियर् अमिताभझा दिवंगतः। गोलानपर्वतेषु संयुक्तराष्ट्र-निरस्त्रण-निरीक्षणदलस्य (UN Disengagement Observer Force - UNDOF) उपसेनाप्रमुखरूपेण (Deputy Force Commander - DFC) सेवां कुर्वन्तः ब्रिगेडियर् अमिताभझा स्वास्थ्यसम्बद्धकारणैः मृतिं प्राप्तवन्तः इति भारतीयसेनया सूचितम्।
मृत्युकाले ब्रिगेडियर् झा नियोगस्य कार्यवाहकः सर्वसैन्यनायकः अपि आसन्। तस्य परिवारं प्रति भारतीयसेनया शोकसन्देशः प्रेषितः। जनरल् उपेन्द्रद्विवेदी सहिताः अनेकाः वरिष्ठसेनान्यः अपि शोकम् निवेदितवन्तः।
भारतीयगोमयस्य सुवर्णमूल्यम्, गल्फ् देशाः क्रीणनाय श्रेण्यां स्थिताः
भारतस्य गोमयं गल्फ् देशाः अत्यधिकमात्रया क्रीणाति। क्रूड्- तैलेन, गैस-भण्डारेण च धनीभूताः गल्फ् देशाः भारतीयं गोमयं क्रेतुम् अधिकम् उत्साहं कुर्वन्ति। नवीनतया भारतात् १९२ मेट्रिक्-टन् गोमयं कुवैटदेशेन स्वीकृतम् ।
आगामिकाले अपि गल्फ् देशेषु गोमयस्य आवश्यकता वर्धिष्यते इत्यतः भारतस्य आपूर्तिः अपि वर्धते। एषः सन्दर्भः केवलं कृषकेभ्यः न, अपि तु भारतीय-सामुदायिक-व्यवस्थायाः अपि महतीम् आर्थिकसाहाय्यं दास्यतीति विशेषज्ञैः उच्यते।
सन्तोष् ट्रोफी - चतुर्थांशस्पर्धाः श्वः आरप्स्यते।
केरलस्य प्रतियोगी जम्मु-काश्मीरम्।
केरलस्य गतदिनस्पर्धायां समस्थितिः।
हैदराबादः> सन्तोष् ट्रोफी पादकन्दुकस्पर्धापरम्परायाः चतुर्थांशप्रतियोगिताः श्वः आरप्स्यते। प्रथमस्पर्धायां वंग-ओडीशा प्रतिद्वन्द्वः भविष्यति। केरलं जम्मु-काश्मीरेण सह शुक्रवासरे स्पर्धिष्यते।
बी संघे केरलस्य अन्तिमस्पर्धायां तमिलनाटं प्रति समस्थितिमपालयत। अनेन केरलदलः अपराजितः सन्नेव चतुर्थांशं प्रविष्टः।
दयालुः बैडः।
३७ जनानां मृत्युदण्डः लघूकृतः।
वाषिङ्टणः> यू एस् राष्ट्रस्य फेडरल् सर्वकारस्य आदेशानुसारं मृत्युदण्डविहितेषु ४० अपराधिषु ३७ जनानां दण्डः जीवनपर्यन्तरूपेण लघूकृत्य राष्ट्रपतेः जोबैडनस्य दयार्द्रप्रक्रमः। अधिकारनिवृत्तये दिनानि अवशिष्टमात्रे एव बैडनस्यायं कारुण्यदृष्टिः। १५०० अपराधिनां कारागारदण्डः सप्ताहद्वयात्पूर्वं बैडनेन लाघवं कृतमासीत्।
रक्षिपुरुषाणां सैनिकानां च घातकाः, उन्मादकवस्तुविक्रयिणः, वित्तकोशस्तेयकाश्च मृत्युदण्डात् लाघवविहितेषु अन्तर्भवन्ति। नियुक्तराष्ट्रपतिः डोनाल्ड ट्रम्पस्तु मृत्युदण्डः विपुलीकरणीयः इति प्रवदति।
चलच्चित्रकारः श्याम बेनगलः दिवंगतः।
मुम्बई> विश्वविख्यातः भारतीयचलच्चित्रकारः श्याम बेनगलः [९०] ह्यः दिवंगतः। निदेशकः, पटकथाकर्ता इत्येवं रीत्या प्रसिद्धः आसीत्।
अङ्कुर्, मण्टि, मन्तान्, निशान्त्, सर्दारी बीगम्, सुबैदा इत्यादीनि चलच्चित्राणि भारतीयचलच्चित्रसंस्कृतेः नवमार्गसूचकानि अभवन्। पद्मश्री,पद्मभूषणपुरस्काराभ्यां सम्मानितः सः सप्तवारं श्रेष्ठतमचलच्चित्रस्य राष्ट्रियपुरस्कारेण समादृतश्च।
२००५ तमे वर्षे दादासाहिबपुरस्कारेण सम्मानितश्च। षड्वर्षाणि राज्यसभांगः आसीत्।
भारत-कुवैटयोः सौहार्दं शक्तं भविष्यति।
चत्वारि सन्धिपत्राणि हस्ताक्षरीकृतानि।
![]() |
| नरेन्द्रमोदिने कुवैटे लब्धं स्वीकरणम्। |
कुवैट् सिटी> भारत - कुवैट् राष्ट्रयोर्मध्ये सौहार्दं सबलं कर्तुं प्रधानमन्त्री नरेन्द्रमोदी कुवैट् राष्ट्रस्य अमीर् शैख् मेषाल् अल् अहम्मद् अल् जाबिर् अल् सहाब् इत्यनेन सह मेलनं कृतवान्। रविवासरे सम्पन्ने मेलने राष्ट्ररक्षा, सांस्कृतिकविनिमयः, कायिकक्षेत्रे सहयोगः, व्यापारविकासः इत्येतेषां विषयेषु सन्धिपत्राणि हस्ताक्षरीकृतानि।
अमीर् वर्यस्य आमन्त्रणानुसारं शनिवासरे आसीत् मोदिनः कुवैट् प्राप्तिः। ४३ संवत्सराणामनन्तरमेव कस्यचन भारतप्रधानमन्त्रिणः कुवैट् सन्दर्शनम्। १९८१ तमे वर्षे इन्दिरागान्धिनः सन्दर्शनमासीत् इतःपूर्वम् सम्पन्नम्।
प्रधानमन्त्रिणा नरेंद्रमोदिना क्रिस्तुमसस्य शुभकामनाः प्रदत्ताः।
प्रधानमन्त्रिणा उक्तं यत् क्रिस्मसस्य दिनेः सदैव क्रिस्तुदेवस्य उपदेशः प्रेम्नः सौहार्दस्य च सन्देशं वहन्ति। पोप महोदयेन सह सम्पन्नः साक्षात्कारः अविस्मरणीयः इति सः अवदत्।
प्रधानमन्त्रिणा पोपः भारतं प्रति आमन्त्रितः। कार्डिनल-जॉर्जकूवक्काडस्य स्थानारोहणाय जॉर्जकुरियनस्य नेतृत्वे एका अधिकारिकप्रतिनिधिमण्डली प्रेषिता आसीत्।
गासायाम् इस्रयेलस्य आक्रमणम् - २८ मरणानि।
गासासिटि> युद्धविराममुद्दिश्य चर्चासु अभ्युन्नतिः अस्तीति मध्यस्थेषु उक्तवत्सु गासां प्रति इस्रयेलस्य आक्रमणम् अनुवर्तते। शनिवासरस्य आरात्रं कृते आक्रमणे २८ जनाः हताः। मध्यगासायां अबु सम्रपरिवारस्य गृहोपरि बोम्बवर्षेण १३ जनाः मृताः।
गासानगरे अभयार्थिशिबिरेण वर्तमानस्य विद्यालयस्य उपरि बोम्बः पतित्वा चतुरान् बालकानभिव्याप्य अष्ट जनाः मृत्युमुपगताः। विद्यालयमाधारीकृत्य प्रवर्तमानं हमासस्य नियन्त्रणकेन्द्रमासीत् लक्ष्यमिति इस्रयेलस्य भाष्यम्।