OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, October 10, 2025

 उद्योगिनः संख्यां न्यूनीकर्तुम् अक्सेञ्चर् संस्थया २०० कोटि डोलर् व्ययीकृतम्।

   आधारसुविधायाः विकासाय औद्योगिकसंस्थाः अधिकं धनं सामान्येन व्ययीकुर्वन्तः सन्ति खलु ?। किन्तु विगतेषु त्रिषु संवत्सरेषु आहत्य तस्मिन् कालाभ्यन्तरे आक्सेञ्चर् संस्थया तेषां २०० कोटि डोलर् धनं कर्मकराणां संख्यां न्यूनीकर्तुमेव व्ययीकृतम्। विगते मासत्रयाभ्यन्तरे ११ सहस्राधिके कर्मकराः ततः निष्कासिताः। नूतन कौशलानि प्रौढान् कर्मकरान् परिशीलयितुं (re skilling) न शक्यन्ते इत्यनेन भवति अयं दुःखपूर्णः निश्चयः स्वीकृताः इति संस्थायाः CEO जूलि स्वीट् उक्तवती। कृत्रिमबुद्धिमत्तायाः प्रयोगे प्रयत्नं कर्तुम् बद्धश्रद्धालू भवति संस्था इत्यस्ति प्रतिवेदनम्।

Thursday, October 9, 2025

 कान्पुरे द्विचक्रिकाद्वयं विस्फोटितम्।

अष्ट व्रणिताः; चत्वारः तीव्रावस्थायाम्।

स्फोटितं यानद्वयं आरक्षकैः परिशुध्यते। 

कान्पुरं> उत्तरप्रदेशस्थे कान्पुरे 'मेस्टण् रोड्' नामके आपणप्रदेशे द्वयोः द्विचक्रिकयोः विस्फोटने अष्ट जनाः व्रणिताः। तेषु चतुर्णामवस्था कठिनतरा इति सूच्यते। 

  बुधवासरे रात्रौ सार्धसप्तवादने आसीदियं दुर्घटना। समीपप्रदेशस्थाः आपणाः भग्नाः। याने छद्मना संभृतानि विस्फोटकानि विद्युत्कोशाः वा स्फोटनस्य हेतुरिति सन्दिह्यते। आरक्षकैः अन्वेषणमारब्धम्।

 कासौधदुरन्तः 

विश्व स्वास्थ्यसंघटनेन विशदीकरणं मार्गितम्। 

मध्यप्रदेशे कासौषधसेवया मृतशिशूनां संख्या २० अभवत्। 

नवदिल्ली> भारते कासमध्वौषधसेवया शिशवः मृताः  विभिन्नराज्येषु कासौषधस्य निरोधः जातः च इत्यस्य आधारे केन्द्रप्रशासनं प्रति विश्वस्वास्थ्यसंघटनेन [WHO] विशदीकरणं मार्गितम्। 'कोल्ड्रिफ् सिरप्' इति कासौषधं विदेशराष्ट्राणि   निर्यातं कृतं वा इत्यस्य विशदांशाः एव 'हू' संस्थया अभियाचिताः। 

  एतदाभ्यन्तरे मध्यप्रदेशे कासमध्वौषधसेवया मृतानां शिशूनां संख्या २० अभवत्।

Wednesday, October 8, 2025

 केय्रो शान्ति चर्चा द्वितीयचरणं प्राविशत्। 

केय्रो> गासायां वर्षद्वयेन अनुवर्तमानायाः वंशहत्यायाः परिसमाप्तिं प्रतीक्षमाणा इस्रयेल-हमासयोः चर्चा द्वितीयदिनं प्राविशत्। यू एस् , खत्तरः, ईजिप्त राष्ट्राणां माध्यस्थे चर्चा अग्रे गच्छति। 

  डोनाल्ड ट्रम्पेन पुरस्समर्पितां २० निर्देशोपेताम् अभियोजनां हमासेन अङ्गीकारयितुमेव मध्यस्थप्रयत्नः प्रचलति। इस्रयेलेन अभियोजना पूर्वमेवाङ्गीकृता।

  पञ्चसु अधिकरणेषु समवायः भवितव्यः इति सूच्यते। 

 १. त्वरितयुद्धविरामः, २. बद्धानां पालस्तीनीयानां मोचनं, ३. गासातः इस्रयेलस्य सैनिकापसरणं, ४. गासां मानविकसाह्यानयनं, ५. युद्धानन्तरगासायाः प्रशासनम् इत्येतेषु विषयेषु समवायः कार्यः।

 भौतिरशास्त्रनोबेल् पुरस्कार‌ः 

त्रयः सम्मानिताः।


स्टोक् होमः> २०२५ तम वर्षे भौतिकशास्त्राय दीयमानाय नोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। 'क्वाण्टं' साङ्केतिकविद्याधिष्ठितस्य अनुसन्धानस्य सूत्रधाराः जोण् क्लार्क् [ब्रिटनं], मिषेल् एछ् डेवोरैट् [फ्रान्स्], जोण् एम् मार्टिनिस् [यू एस्] इत्येते त्रयः शास्त्रज्ञाः सम्मानिताः।

 हिमाचले बस् यानस्य उपरि गिरिपार्श्वप्रपातः।

१५ मरणानि।

षिंला>  हिमाचलप्रदेशस्थे बिलासपुरमित्यत्र बस् यानस्य उपरि गिरिपार्श्वप्रपातेन १५ यात्रिकाः मृताः। यानसेवकाः अपि मृतेषु अन्तर्भवन्ति। त्रयः रक्षिताः। दुर्घटनावेलायां ३५ जना बस् याने आसन्निति सूच्यते। 

  कुजवासरे सायम् आसीत् दुर्घटना। मृत्युसंख्या परं वर्धिष्यते। रात्रावपि रक्षाप्रवर्तनमनुवर्तते। अतीतेषु कतिपयदिनेषु राज्ये अतिवृष्टिः तदनुबन्धदुष्प्रभावश्च अनुवर्तते।

Tuesday, October 7, 2025

 इस्रयेल-हमासचर्चा केय्रोमध्ये समारब्धा। 

कय्रो> गासायां वर्षद्वयं यावत् अनुवर्तमानं रिधिरस्रावमपाकर्तुं इस्रयेल-हमासयोः निर्णायकचर्चा ईजिप्तराष्ट्रे केय्रोनगरे समारब्धा। खतरं, यू एस्, ईजिप्त् राष्ट्राणां प्रतिनिधयद्वारा एवा चर्चा सम्पद्यते।

 बिहारनिर्वाचने परिष्काराः अपि परीक्ष्यन्ते। 

नवदिल्ली> बिहारराज्ये नवम्बर् ६, ११ दिनाङ्कयोः सम्पत्स्यमाने विधानसभानिर्वाचने नूतनपरिष्काराः अपि परीक्ष्यन्ते। २०२० तमस्य निर्वाचने सोपानत्रयमासीत्। इदानीं सोपानद्वयेन निर्वाचनं पूर्तीकर्तुमुद्दिश्यते। जनसम्मर्दं निराकर्तुं मतदानकेन्द्रेषु मतदानिनां संख्या १२०० इति निश्चिता। निर्वाचनकेन्द्रेषु 'वेब् कास्टिंग्' [Web casting] व्यवस्था कृता। एवं १७ अधिकरणेषु परिष्काराः विधत्ताः। 

  अशेषं राज्ये २४३ मण्डलानि वर्तन्ते। आहत्य ७. ४३ कोटि संख्याकाः मतदानिनः सन्ति। तेषु पुरुषाः ३. ९२कोटि, महिलाः ३. ५० कोटि, भिन्नलिंगाः १७२५ च सन्ति। १४. ०१ लक्षं नूतनाः मतदानिनः सन्ति।

 फ्रञ्च प्रधानमन्त्री सेबास्ट्यन् लेकार्णुः पदं त्यक्तवान्। 

वर्षद्वयाभ्यन्तरे पञ्च प्रधानमन्त्रिणः स्थानं त्यक्तवन्तः। 

सेबास्ट्यन् लोकार्णुः। 

पारीसः> स्थानं लब्ध्वा मासमेकं पूर्तीकरणात्पूर्वं फ्रान्सस्य प्रधानमन्त्री सेबास्ट्यन् लेकार्णु नामकः त्यागपत्रं समार्पयत्।   अतीतमन्त्रिमण्डलस्य भूरिशः सदस्याः लेकार्णोः मन्त्रिमण्डले अपि  अन्तर्भूताः  इति तं प्रति शासनपक्षादेव प्रतिषेधस्य कारणमभवत्। तदेव लेकार्णोः स्थानत्यागस्य हेतुः। 

  लेकार्णोः त्यागपत्रं राष्ट्रपतिना इम्मानुवल् मक्रोणेन अङ्गीकृतम्। वर्षद्वयाभ्यन्तरे स्थानत्यागं कुर्वन् पञ्चमः प्रधानमन्त्री अस्ति सेबास्ट्यन लेकोर्णुः।

 आतुरालये अग्निबाधा - षट् मरणानि।

जयपुरं> राजस्थाने जयपुरस्थे सवाय् मानसिंहातुरालये तीव्रपरिचरणविभागे दुरापन्नेन अग्निप्रकाण्डेन षट् रोगिणः मृत्युमुपगताः। चत्वारः पुरुषाः द्वे महिले च मृताः। पञ्च जनाः दग्धव्रणिताः जाताः। सार्धहोरामुपयुज्य एवाग्निः निर्वापितः।

Monday, October 6, 2025

 बिहारे विधानसभानिर्वाचनं

दिनाङ्कः विज्ञापितः।

पाट्ना> बिहारराज्ये विधानसभानिर्वाचनं नवम्बरमासस्य ६, ९९ दिनाङ्कयोः सोपानद्वयेन विधास्यते। प्रथमसोपाने १२१ विधानसभामण्डलेषु निर्वाचनं सम्पत्स्यते। शिष्टे १२२ स्थानेषु नवम्बर् ११तमे दिनाङ्के निर्वाचनं भविष्यति। मतगणना १४ तमे दिनाङ्के भविष्यति।

Latest News

 नेपाले जलोपप्लवः, मृत्प्रपातः। 

४० मरणानि। 

काठ्मण्डुः> नेपालराष्ट्रस्य पूर्वस्मिन् प्रदेशे दुरापन्नायाः भीषणवृष्ट्याः प्रभावेण ४० जनाः अकालमृत्युं प्राप्ताः। कोशि प्रदेशे जाते प्रलये भूस्खलने च ३७ जनाः मृताः।   शनिवासरस्य  रात्रेरारभ्य प्रवृत्ते वर्षणे आसीत् दुरन्तः। पञ्च जनाः तिरोभूताः इति सूच्यते। 

  रक्षाप्रवर्तनाय नेपालसेना दुरन्तनिवारणविभागाश्च प्रवर्तननिरताः सन्ति। काठ्मण्डोः अधित्यकायां गमनागमननियन्त्रणं विधत्तम्। बागमती, राप्ती नदीद्वयस्य तटेषु अतीवजाग्रता उद्घोषिता।

 कासशमनमध्वौषधोपयोगेन बालकमृत्यु‌ः।

मध्यप्रदेशे राजस्थाने च औषधं निरुद्धम्। 

नवदिल्ली> कासरोगाय 'सिरप्' [Syrup] इति मध्वौषधस्य सेवया वृक्कावयवस्य विनाशेन कतिपयबालकाः मृताः इति वृत्तान्तस्य आधारे विवादौषधानां निर्माणशालासु केन्द्र स्वास्थ्यमन्त्रालयस्य त्वरितपरिशोधना सम्पन्ना। षट् राज्येषु कासमध्वौषधानि 'आन्टी बयोटिक्' औषधानि चाभिव्याप्य १९ अधिकरणानि औषधानि यत्र निर्मीयन्ते तत्र आसीत् CDSCO (Central Drugs Standard Control Organization) संस्थायाः परिशोधनं सम्पन्नम्। 

  मध्यप्रदेशे ९, राजस्थाने त्रयः च शिशवः कास सिरप् औषधसेवानन्तरं जातेन अस्वास्थ्येन मृत्युमुपगताः इति वार्ता आगता। राज्यद्वये च मृत्युहेतुभूतस्य औषधस्य निर्माणं निरुद्धम्। तमिलनाटे कृते परिशोधने विषमालिन्यान्तर्भूतस्य औषधस्य निर्माणं निरुद्धम्। केरले च 'कोल्ड् रिफ्' सिरप् औषधस्य विक्रयः निरुद्धः।

 शुभमान गिलः भारतस्य एकदिनगणस्यापि नायकः।

शुभमान गिलः। 

मुंबई> क्रिकट् निकषगणस्य नायकस्थानेन सह एकदिनक्रिकट् गणस्य नायकरूपेणापि शुभमान गिलः नियुक्तः। रोहित शर्मणः स्थाने अस्ति गिलस्य नायकपदम्। अतीते मेय्मासे गिलः भारतस्य क्रिकट्निकषगणस्य नायकत्वेन नियुक्तः आसीत्। 

  श्रेयस् अय्यरः उपनायकः भविष्यति। रोहित शर्मा, विराट कोली च क्रिकट्निकषगणे अन्तर्भूतौ।

Sunday, October 5, 2025

 राजनीतिः या अपि भवतु, यदि राष्ट्रं आनन्देत् तदेव पर्याप्तम् 

    – इत्युक्त्या डॉ॰ शशि तरूरः अप्रत्यक्षतया कांग्रेस्-दलात् उद्भूतविमर्शनानां प्रत्युत्तरं दत्तवान्।

   केरलराज्ये समुपस्थितः डॉ॰ शशि तरूरः, “राजनीतिः या अपि भवतु, राष्ट्रम् आनन्देत् तदेव मम मतम्” इति उक्तवान्। सः जवाहरलाल नेहरोः वचांसि उद्धृत्य स्वस्य अभिप्रायं प्रकाशयामास।


श्रीश्रीनारायणगुरोः उक्तिं स्मारयन् सः अवोचत् – “ धर्मः कीदृशोऽपि वा भवतु, यदि मनुष्यः आनन्देत् तदेव पर्याप्तम् "। तथैव अहं वदामि – राजनीतिः या अपि भवतु, यदि राष्ट्रं आनन्देत् तदेव मम विश्वासः। एतं विश्वासं धारयित्वा एव राजकार्यम् आचरामि” इति सः सार्वजनिके कार्यक्रमे अवदत्।


तस्मिन् एव भाषणे सः नेहरोः प्रसिद्धं वाक्यमपि उद्धृतवान् –

“यदि भारतः म्रियेत्, तदानीं को वा जीवेत्?” इति।

     प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति स्वस्य प्रशंसावाक्यानां कारणात्, शशि तरूरः स्वदलीयेषु जनेषु आलोचनायाः विषयः अभवत्। तेषां किंवदन्तीनां प्रत्युत्तररूपेण सः उक्तवान् यत् –

“मम सर्वे अभिप्रायाः, यथा ‘ऑपरेशन् सिन्दूर’ इत्यस्मिन्, अथवा राष्ट्रस्य आर्थिकविषयेषु चर्चासु, राष्ट्रस्य हितमेव मम आधारविषयः इति ॥

 नेपाले जलप्रलयः ४७, मरणानि।

  हिमालयप्रान्तेषु पूर्वोत्तर-राज्येषु च जलप्रलयः अभवत्। नव जनाः अप्रत्यक्षाः। डार्जिलिङ् प्रदेशे १७ जनाः मृताः। विविधप्रदेशेषु राजमार्गाः ग्राममार्गाः च भग्नाः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी नेपालाय साहाय्यं वाग्दत्तम्।

 मोहनलालाय राज्यसर्वकारस्य समादरः।

रेरलप्रशासनस्य उपहारं मुख्यमन्त्री पिणरायि विजयः मोहनलालाय ददाति। 

 

अनन्तपुरी> फाल्के पुरस्कारोपलब्धः कैरल्याः महानटः मोहनलालः केरलसर्वकारेण समादृतः। शनिवासरे सायं अनन्तपुर्यां 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे समायोजिते प्रौढगम्भीरे कार्यक्रमे मुख्यमन्त्री पिणरायि विजयः मोहन् लालं सुवर्णवसनधारणेन उपहारसमर्पणेन च समादृतवान्। मलयालचलच्चित्रात् प्रथम फाल्केपुरस्कृतः अडूर् गोपालकृष्णः मुख्यातिथिरभूत्।

  चलने उपवेशने दर्शने शरीरभाषायां च मोहनलाल इव केरलीयान् प्रभावितः अपरः अभिनेता नास्तीति मुख्यमन्त्रिणा प्रकीर्तितम्। कविना प्रभावर्मणा विरचिता 'काव्यपत्रम्' इति काव्यप्रशंसा अपि लालाय समर्पिता। शिक्षामन्त्री वि शिवन्कुट्टिः समारोहे अध्यक्षः अभवत्। मन्त्रिणः सजि चेरियान्, के एन् बाल गोपाल,जि आर् अनिलः, राजनैतिकदलनेतारः, सांस्कृतिकप्रमुखाः, चलच्चित्रमण्डलात् प्रमुखाश्च कार्यक्रमेSस्मिन् भागं गृहीतवन्तः।

 पाकिस्थानस्य युद्धविमानाय रष्यस्य विमानयन्त्रं ?

    मोस्को> पाकिस्थानस्य JF युद्धविमानाय रष्यः विमानयन्त्रं दातुं पार्यालोच्यते इति प्रतिवेदनं रष्येन निरस्तम् । तादृशः कोऽपि निर्णयः नास्ति इति रष्यः अवदत्। प्रदिवेदनमिदं युक्तिरहितः इति च रष्यस्य उन्नताधिकारिणः  सूचयन्ति। रष्य-भारतयोः साह्यकरणस्य नाशम् उद्दिश्य भवति इदं प्रतिवेदनम् इत्यपि अधिकारिणः अवदन्।

Saturday, October 4, 2025

 संगमग्राममाधवमधिकृत्य संगोष्ठी।

कोच्ची> विश्रुतं पुरातनकालीनं भारतीयगणित-ज्योतिशास्त्रज्ञं संगमग्राममाधवमधिकृत्य ओक्टोबरमासस्य षष्ठे दिने संगोष्ठी प्रचलिष्यति। कोच्ची समीपे पिरवं वेलियनाट् इत्यत्र वर्तमाने आदिशङ्करनिलयस्थे 'चिन्मया इन्टर्नाशणल् फौण्डेशन्' स्थाने अस्ति संगोष्ठी। 

  सामवेदाचार्यः तोट्टं शिवकरन् नम्पूतिरिः संगोष्ठ्याः उद्घाटनं करिष्यति। वि पि एन् नम्पूतिरिः मुख्यभाषणं करिष्यति।

 भारतस्य निर्दाक्षिण्यसूचना 

मानचित्रे द्रष्टव्यं चेत् पाकिस्थानेन भीकरवादः समापयितव्यः। 

नवदिल्ली> भारतेन पाकिस्थानराष्ट्रं प्रबोधितं यत्  विश्वमानचित्रे स्थानमास्थापयितव्यं चेत् स्वभूमौ भीकरवादस्य प्रोत्साहनं तद्राष्ट्रेण समापयितव्यम्। राजस्थाने अनुपगढे सैनिकान् सम्बुध्यमानः भारतस्य  स्थलसेनाधिपः उपेन्द्र द्विवेदिवर्यः भारतस्याभिमतं सुस्पष्टमवदत्। भविष्ये संघर्षः जायते चेत् 'ओपरेषन् सिन्दूरे' भारतेन प्रकटितं संयमनं न भवेदिति सः निश्शङ्कमुक्तवान्।

 भारतीयपत्रकारकुलपतिः

टि जे एस् जोर्जः स्वर्गतः।


बङ्गलुरु> भारते पत्रकारमण्डलस्य कुलपतिः इति विशेष्यमानः टि जे एस् जोर्जः [Thayyil Jacob Sony George] बङ्गलुरु मध्ये निजीयातुरालये स्वर्गीयोSभवत्। ९७ वयस्कः सः वार्धक्यसहजास्वास्थ्येन सप्ताहं यावत् परिचर्यायामासीत्। गुरुवासरे रात्रौ सञ्जातः हृदयाघात एव मरणकारणमिति सूच्यते। 

   निर्भयपत्रकारप्रवर्तनस्य मुखमुद्रा आसीत् टि जे एस् जोर्जः। भारते विदेशे च अर्धशतकाधिककालं वृत्तान्तपत्रकाररूपेण उज्वलितः सः लेखनेन पादमुद्रया च उन्नतशीर्षः आसीत्। 'दि न्यू इन्डियन् एक्स्प्रेस्' इति पत्रिकायां Point of view नामिका वारान्तपरम्परा अनुस्यूततया २५ वर्षाणि यावत् तेन लिखिता। २०११ तमे वर्षे राष्ट्रस्य पद्मभूषणबहुमत्या सः समादृतः आसीत्।

 रविवासरस्य निशायाः पूर्वं सन्धिः अङ्गीकर्तव्यः। 

हमासं प्रति ट्रम्पस्य अन्त्यादेशः। 

वाषिङ्टणः> वर्षद्वयातीतस्य  गासायुद्धस्य परिसमाप्तये आत्मना उन्नीतः २० अधिकरणात्मिका शान्त्यभियोजना अमेरिकीयसमयानुसारं रविवासरस्य सायं षट्वादनात्पूर्वम् अङ्गीकर्तव्यः इति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः हमासं प्रति अन्त्यादेशं विज्ञापितवान्। नो चेत् तीव्रः प्रत्याघातः भविष्यतीति तेन भीषा अपि उद्घोषिता। 

  ७२ होराभ्यन्तरे बद्धानां विमोचनं, हमासस्य निरायुधीकरणं, ट्रम्पः अध्यक्षपदमलङ्कुर्वाणा 'बोर्ड् ओफ् पीस्' [Board of Peace] इति कृतनामधेयायै समित्यै गासायाः अल्पकालीनप्रशासनाधिकारः दातव्यः इत्यादिनिर्देशोपेता परियोजना इस्रयेलेन अङ्गीकृतमासीत्। किन्तु सन्धेः सर्वाः व्यवस्थाः अङ्गीकर्तुं न शक्यते; अनुसन्धानाय अधिकसमयः आवश्यकः इति कैश्चित् हमासनेतृभिः उक्तमासीत्। अत एव ट्रम्पेन अन्त्यनिर्देशः उद्घोषितः।

Friday, October 3, 2025

 भारत-चीनविमानसेवा अस्मिन् मासे पुनस्थापयिष्यति।

नवदिल्ली> ओक्टोबर् मासस्य अन्ते चीन-भारतयोः मिथः विमानसेवा  पुनरारप्स्यते इति विदेशकार्यमन्त्रालयेन निगदितम्। लडाके नियन्त्रणरेखायां उभयोरपि सेनयोः संघर्षेण सौहृदं खण्डितमित्यतः सेवा स्थगितमभवत्। चर्चाभिः उभयसम्बन्धः इदानीं श्रेष्ठतामापद्यत। अत एव ईदृशनिर्णयः।

 ५७ नूतनकेन्द्रियविद्यायानाम् अनुज्ञा। 

नवदिल्ली> वर्धमानां शैक्षिकार्हतां सफलीकर्तुं राष्ट्रमशेषं ५७ नूतनान्  केन्द्रियविद्यालयान् आरब्धुंकेन्द्रमन्त्रिमण्डलेन अनुज्ञा दत्ता। नववर्षाभ्यन्तरे विद्यालयानां निर्माणं पूर्तीकर्तुमुद्दिश्यते। ५८६२. ५५ कोटिरूप्यकाणां व्ययः प्रतीक्षते। 

  पूर्वं ८५ केन्द्रियविद्यालयानां अनुज्ञा दत्ता आसीत्। तैः सह एव नूतनानामनुज्ञा।

Thursday, October 2, 2025

 भारतस्य नाणकेषु इदंप्रथमतया भारताम्बायाः मुद्रा

    नवदिल्ली> आर् एस् एस्- शतकीयपर्वणः अवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना भारताम्बाया: चित्रयुक्तं शतमूल्यकं  विशेषनाणकं तद्विषयानुसारिणी पत्रालयचित्रमुद्रा च विमोचितौ। एतादृशं भारताम्बाया: चित्रं प्रथमवारं भारतीय नाणकेषु अंकितम्। प्रधानमन्त्रिणः वचनेन – “अयं क्षणः गौरवेण ऐतिहासिकेन च स्मरणीयः मुहूर्तः" इति। भारताम्बायै तथा राष्ट्रिय-स्वयं सेवक-सङ्घस्य  शतवर्षीयसेवायै च दीयमानः गौरवपूर्णः सम्मानः इति मोदिना उक्तम्।

   अस्मिन् पर्वणि केन्द्रसांस्कृतिकमन्त्री गजेन्द्रसिंहः शेखावत्, दिल्लीमुख्यमन्त्री रेखागुप्ता, राष्ट्रिय-स्वयं सेवक-सङ्घस्य  महासचिवः दत्तात्रेयः होसबाले, विनयः सहस्रबुद्धे महाशयाः च उपस्थिताः आसन्।