एदन् विमाननिलये भीकाराक्रामणं १३ जनाः निहताः। घटना प्रधानमन्त्रिणः विमानावतरण सन्दर्भे।
OUR YouTube Channel 1. SampratiVartah |
marquee
Thursday, December 31, 2020
Wednesday, December 30, 2020
कोविड्मरणानि युगलत्रितयमभ्युपगम्य रूस् राष्ट्रम्।
मोस्को> रूस् राष्ट्रे कोविड्मरणानि पूर्नप्रख्यापितात् त्रिगुणितमधिकं जातानीति दृढीकरणम्। रूस् राष्ट्रस्य उपप्रधानमन्त्री तत्यान गोलिकोवा इत्येष एव ईदृशमभ्युपगमं कृतवान्। ५५,००० जनाः कोविड्बाधया मृताः इत्यासीत् राष्ट्रस्याधिकारिकप्रस्तावः।
किन्तु १.८९ लक्षं जनाः मृताः इति नूतनः वृत्तान्तः। अनेन यू एस् ब्रसीलराज्ययोरनन्तरं कोविड्मृत्युसंख्यायां रूस् तृतीयं स्थानं वहति। रूस्राष्ट्रेण स्वकीयविकसितस्य प्रत्यौषधस्य 'स्फुट्निक्-५' नामकस्य सूचीप्रयोगः तत्र आरब्धः अस्ति।
नूतनः कोविड्रोगः अधिकराष्ट्रेषु व्याप्यते।
वंशविपरिणामभूतः कोविड्रोगः अधिकेषु राष्ट्रेषु व्याप्यते। ब्रिट्टने प्रत्यभिज्ञातः अयं विषाणुः इदानीं दक्षिणाफ्रिक्का , अयर्लान्ट्, नेतर्लान्ट्, होङ्कोङ्, जापानं, इस्रयेल् , लबनन्, सिङ्गप्पूर्, आस्ट्रेलिया, दक्षिणकोरिया, पाकिस्तानं, भारतं, कनाडा, यूरोपियन् देशेषु च व्याप्तः अस्ति।
समीपकाले ब्रिट्टनात् प्रत्यागतेभ्यः चतुर्भ्यः पाक्किस्थानीयेभ्यः कराच्यां रोगः दृढीकृतः। अतिशीघ्रं व्याप्यमानस्य वैराणोः व्यापनं निरोद्धुं ५० अधिकैः राष्ट्रैः ब्रिट्टनात् यात्रानिरोधः विधत्तः। ब्रिट्टने तु प्रतिदिनं उपपञ्चलक्षं जनेषु कोविड्परिशोधना क्रियते
क्रोयेष्यदेशे भूचलनम्। बहवः जनाः क्षताः। स्लोवेनिय आणवनिलयः पिधानं कृतम्।
Tuesday, December 29, 2020
यूरोप् राष्ट्रेषु कोविड् प्रतिरोधौषधस्य वितरणं समारब्धम्।
चित्रम् AP- इट्टलिदेशे कोविड्वाक्सिन् प्रयोगसन्दर्भः॥ब्रसल्स्> कोविड्१९ प्रतिरोधौषधस्य प्रयोगस्य समारम्भः यूरोप् राष्ट्रस्य विविध भागेषु समारब्धः। फैसर् बयोण् टेक् संस्थायाः औषधमेव वितरति। महारोगात् रक्षां प्राप्तुं प्रतिरोधौषध-प्रयोगः अनिवार्य: इति युरोप् ऐक्य-सङ्घटनायोगेन ट्विट्टर् द्वारा प्रकाशितम्। इतः पर्यन्तं यूरोप् राष्ट्रेषु सार्ध द्विकोटि-जनाः रोगबाधिताः सन्ति।
Monday, December 28, 2020
गूगिलस्य प्रतियोगी रूपेण नीति आयोगस्य 'डिजिबोक्स्'।
अपरिमित-चीत्रसमारोहणं २०२१जूण् मासस्य २१ दिनाङ्कतः न लप्स्यते इति गूगिलस्य ख्यापनं समागतम्। तदनन्तरं झटिति एव अवतरिता सुविधा भवति नीति आयोगस्य 'डिजिबोक्स्'। २० जि बि निक्षेपस्थानं (Storage) शुल्कं विना लभते इत्यस्ति विशेषता। प्रतिमासं ३० रूप्यकाणि दीयते चेत् १०० जि बि पर्यन्तं लप्स्यते। गूगिलस्य १०० जि बि निक्षेपस्थानाय १३० रूप्यकाणि दातव्यानि। शुल्कं विना १५ जि बि एव लभते। भारते एव टंकिततांशः संरक्षणीयः राष्ट्र-सुरक्षा स्थापनीया इत्यादि लक्ष्याः सन्ति इति डिजिबोक्सस्य सि इ ओ अर्णब् मित्रेण उक्तम्।
भारतराष्ट्रेषु चतुर्षु राज्येषु कोविड् प्रतिरोधौषधस्य 'ड्रै रण्'
नवदिल्ली> आराष्ट्रं कोविड् रोगस्य प्रत्यौषधवितरणस्य भागतया चतुर्षु राज्येषु 'ड्रै रण्' करिष्यते। अध्रा, असं, गुजरात्, पञ्चाब् राज्येषु भवति 'ड्रै रण्'। प्रत्येकं राज्ये द्वयोः जनपदयोः जनपदस्तरीय आतुरालयः सामूहिक-स्वास्थ्यकेन्द्रः प्राथमिक-स्वास्थ्यकेन्द्रः नगर ग्राम निजीय स्वास्थ्यमण्डलाः इति पञ्चधा विभज्य सज्जीकृता आसन्। अद्य श्वः च 'ड्रै रण्' भविष्यति। औषधवितरण-वेलासु काः अपि समस्याः भविष्यन्ति वा इति ज्ञातुमेव भवति 'ड्रै रण्' प्रक्रिया।
Sunday, December 27, 2020
अष्टवर्षाभ्यन्तरे चीनः यु एस् राष्ट्रात् पुरोगमिष्यति।
विपरिणमितकोविड् विषाणुः यूरोप् राष्ट्रेषु व्याप्यते।
पारीस्> वंशपरिणामभूतः कोविड्वैराणुः यूरोपीयराष्ट्रेषु आशङ्राजनकेन व्याप्यते। विषाणोः सान्निध्यं यू केतः आगतेषु चतुर्षु स्पयिन् देशीयेषु नैकेषु फान्स् , स्वीडन् देशीयेषु च स्थिरीकृतम्।
तथा च जापाने पञ्च जनाः नूतनविषाणुबाधिताः अभवन्। डेन्मार्क्,नेतर्लान्ट्, आस्ट्रेलिया इत्येतेषु राष्ट्रेष्वपि विपरिणतवैराणोः सान्निध्यं दृढीकृतमासीत्।
राष्ट्रस्य अल्पतमवयस्का महानगरसभाध्यक्षा केरलराजधान्याम्।
बालसंघस्य राज्यस्तरीयाध्यक्षा, एस् एफ् ऐ नामकविद्यार्थिसंघटनस्य जनपदोपाध्यक्षा तथा राज्यसमित्यङ्गश्च भवत्येषा। सि पि एम् राजनैतिकदलस्य अनन्तपुरीजनपदसमित्या एव महानगरसभाध्यक्षस्थानं प्रति आर्या निश्चिता। नगरस्य ४६तमं 'मेयर्'पदं तथा तृतीयं वनितामेयर् पदं च अलंक्रियते आर्याराजेन्द्रेण।
Saturday, December 26, 2020
ब्रिट्टणे कोविड् वैराणोः अन्यतमा श्रेणी प्रत्यभिज्ञाता।
लन्टण् > बिट्टणो प्रत्यभिज्ञातस्य वर्धित व्यापनक्षमस्य वैराणोः श्रेण्याः दक्षिणाफ्रिका संबन्धः अस्ति इति ब्रिट्टीष् स्वास्थ्य निर्देशकेन मानहोकेन उक्तम्। जनितक रूपव्यत्ययेन जातस्य वैराणोः ब्रिट्टणस्य वैराणुभिन्नता अस्ति। अस्य वैराणेः व्यापनशीलत्वम् अधिकम् अस्ति। अतः भयाशङ्काः वर्धन्ते इति तेनोक्तम्।
Friday, December 25, 2020
चलनचित्रगीतस्य संस्कृतानुवादः सामाजिकमाध्यमेषु नूतनतरङ्गमुद्पाद्यते।
आक्कुलं केन्द्रीयविद्यालयस्य छात्रा तथा विश्वाभिलेखविजेत्री चलच्चित्रगायिका च अदिति नायर् एवास्यालापनम् अकरोत्। Livesanskrit संघस्य सदस्यः श्री विनायकः सी बी अस्य सम्पादनम् अकरोत्। संस्कृतगानमिदमधुना जनहृदयेषु स्थानमावहत् सामाजिकमाध्यमानां प्रियतरं विराजते।
गानश्रवणाय -https://youtu.be/Fk3gccQKDes
कृषक प्रक्षोभः आरभ्य मासैकं प्राप्नोति - परिहारः अनिश्चितत्वे।
नवदिल्ली> केन्द्रसर्वकारस्य नूतनान् कार्षिकनियमान् विरुद्ध्य आरब्धः कृषकप्रक्षोभः मासैकं प्राप्नोति। परिहारचर्चा अपि सप्तवारमतीता। किन्तु परिहारस्तु विदूरे वर्तते।
कार्षिकनियमाः पूर्णतया कृषकाणां हितमुद्दिश्य इति प्रधानमन्त्रिणा अपि गतदिने उक्तमासीत्। नियमानधिकृत्य उदारहृदयेन चर्चायै सज्जमिति ह्यः पत्रद्वारा सर्वकारेण पुनरुक्तम्। किन्तु नियमस्य विनिवर्तनात् ऋते किमपि नावश्यकमिति कृषकसंघटनैरपि निगदितम्।
Thursday, December 24, 2020
कोविड् ग्रसितम् अन्टार्टिकं अपि। ३६ संख्याका: रोगग्रस्ताः।
सान्टियागो> अन्टार्टिका प्रदेशेऽपि कोविड् १९ वैराणुबाधा स्थिरीकृता। चिलियस्य अनुसन्धानाधार-प्रकोष्टस्य ३६ जनाः एव रोगग्रस्ताः अभवन्। एतेषु २६ जनाः चिलियस्य सैनिकाः १० जनाः कर्मकराः च भवन्ति। भूखण्डे सामान्य जनवासः नास्ति चेदपि २००० गवेषकाः अन्ये सन्दर्शकाः च अत्र वासं कुर्वन्तः सन्ति इति ए पि संस्थया आवेद्यते।ब्रिट्टनं प्रति यात्रानिरोधः फ्रान्स् राष्ट्रेण निराकृतः।
पारीस्> कोविड्विषाणोः परिणमितरूपाधिगमनानन्तरं ब्रिट्टन् राष्ट्रात् आगम्यमानेभ्यः विहितं यात्रानिरोधं फ्रान्स् राष्ट्रं निराकुरुत। दिनद्वयात्मकमासीत् निरोधः। परं कोविडभावसाक्ष्यपत्रसहितेभ्यः यात्रिकेभ्यः राष्ट्रं प्रवेष्टुमनुज्ञा कल्पिता। ब्रिट्टनात् प्रस्थिताः पण्यमहानौकाः बुधवासरे फ्रान्ससः तीरं प्राप्ताः। ब्रिट्टनस्य उपरि विहितः यात्रानिरोधः प्रतिनिवर्तितव्यः इति यूरोपियन् आयोगेन निर्दिष्टमासीत्।
Wednesday, December 23, 2020
केरलस्य श्रेष्ठा कवयित्री सुगतकुमारी दिवङ्गता। कोविड् रोगबाधिता आसीत्
केरल साहित्य अक्कादमी पुरस्कारः केन्द्रसाहित्य-अक्कादमी पुरस्कारः एषुत्तच्छन् पुरस्कारः सरस्वतीसम्मानम्, पद्मश्री इत्यादयः संख्याधिक-पुरस्कारवृष्ट्या एषा समादृता आसीत्। केरल-वनिता आयोगस्य प्रथमा अध्यक्षा आसीत् एषा। प्रकृति संरक्षणाय महान् प्रयत्नः अनया कृता। अद्य सायं कोविङ् नियन्त्रण-नियामानुसारेण अन्त्येष्टिः भविष्यति।
Tuesday, December 22, 2020
केरले प्रादेशिकजनप्रतिनिधयः संस्कृते शपथवाचनं कृतवन्तः।
कोच्ची> न केवलं लोकसभायां विधानसभायां किन्तु प्रादेशिकशासनसमित्यामपि जनप्रतिनिधयः संस्कृतभाषायां सत्यप्रतिज्ञां कुर्वन्ति। केरले सम्पन्ने पञ्चायत्तशासनसमितिसदस्यानां शपथवाचनसमारोहे आसीत् भारतस्य सांस्कृतिकभाषायाः स्वननिध्वानं श्रुतम्। केरलराज्यस्य बहुषु ग्रामसभासु नगरसभासु च शपथवाचनकार्यक्रमेषु बहवः बह्व्यः च सदस्याः संस्कृतभाषायां शपथवाचनं कृतवन्तः।
तिरुवनन्तपुरं महानगरसभायां मञ्जू जे नामिका सदस्या, कोट्टयं नगरसभायाः ४१तम मण्डलस्य प्रतिनिधिः के. शङ्करः च संस्कृते शपथवचनम् अकुरुताम्। कोट्टयं जनपदे अय्मनं पञ्चायत्ते १५तम मण्डलात् निर्वाचिता देवकी, पनच्चिक्काड् षष्ठमण्डलसदस्यः जयन् कल्लुङ्कल्, वाटानप्पल्ली ग्रामसभासदस्या आशागोकुलदासः, पत्तनंतिट्टा जनपदस्थे मलयालप्पुष़ा पञ्चायत्तसभां प्रति चितः सन्तोष् कुमारप्रभृतयः, पालक्काट्जनपदेमलम्पुष़ा ग्रामसदस्यः एम् माधवदासः इत्यादयः अनेके सदस्याः संस्कृतभाषायां शपथवचनं कृत्वा संस्कृतमातरि स्वकीयादरं प्रकाशिवन्तः।
Monday, December 21, 2020
भारते कोविड्वाक्सिनं जनुवरिमासे दातुं शक्यते - स्वास्थ्यमन्त्री।
नवदिल्ली> राष्ट्रे कोविड्वाक्सिनं जनुवरिमासादारभ्य दातुं शक्यते इति भारतस्य स्वास्थ्यमन्त्री हर्षवर्धनः प्रतीक्षां प्रकटितवान्। औषधस्य फलप्राप्तिः, सुरक्षा इत्यादिकमधिकृत्य आशङ्का परिहर्तव्या। एतस्मिन् विषये अलम्भावः न भविष्यति। जनुवरिमासे यदा कदापि प्रतिरोधसूचीप्रयोगः आरभेत इति हर्षवर्धनेनोक्तम्।
Sunday, December 20, 2020
पश्चिमखण्डः अपायकोट्यां - त्वरितपदक्षेपाः न सन्ति चेत् आपदिति युनेस्को।
कोच्ची> केरलमभिव्याप्य षट्राज्यानां जीवनाडिभूतः पशिमखण्डो नामकः पर्वतपङ्क्तिः अपायकोट्यां वर्तते इति संयुक्तराष्ट्रसंघटनस्य युनस्कोसंस्थायाः आवेदनपत्रम्। झटित्येव संरक्षणपदक्षेपाः न स्वीकरिष्यन्ते चेत् जैववैविध्येन सह पश्चिमखण्डमुपजीव्य जीवसन्धारणं कृतवतः जनसमूहस्य जीवनं दुरितमयं भवेदिति आवेदने अङ्गुलीनिर्देशो वर्तते।
विश्वस्मिन् प्रकृतिदत्तपैतृकस्थानेषु अतिप्राधान्यमावहति पश्चिमखण्डः। इदंप्रथममेव पश्चिमखण्ड इति अपूर्वजैववैविध्यमण्डलस्य संरक्षणविषये युनस्कोसंस्थया स्वीयाशङ्कां प्रकाशयति। प्रकृतिसंरक्षणे यूनस्कोसंस्थायाः आधिकारिकोपदेशसमित्या International Union for Conservation of Nature (IUCN) नामिकया एव अवलोकनपत्रं सज्जीकृतम्। अस्मिन् 'कठिनतरोत्कण्ठापेक्षितं स्थान'मिति पश्चिमखण्डः अङ्कितः अस्ति।
पर्यावरणव्यतियानः, अतितीव्रग्रीष्मकालवर्षौ, जल-वायुमलिनीकरणं, विनोदसञ्चारायोजनाः, वननशीकरणं, वनान्तर्गताः मार्ग-रेल्यानपद्धतयः, खनि-शिलोद्योगाः, बडवाग्निः इत्यादयः पश्चिमखण्डं नाशोन्मुखं कारयन्तीति आवेदनपत्रे सूच्यते।
२०११तमे वर्षे केन्द्रवनं-परिस्थितिमन्त्रालयं प्रति माधवगाड्गिल् वर्यस्य नेतृत्वे सज्जीकृत्य समर्पिते आवेदनपत्रे अयं विषयः सुव्यक्ततया उक्तमासीत्।
भारते कोविड्बाधिताः एककोटिपरिमितम् अतीताः।
नवदिल्ली> अमेरिक्काम् अनुगम्य भारते कोविड्बाधितानां संख्या एककोटिम् अतीता। गतदिनस्य विज्ञापनमनुसृत्य देशे कोविड्रोगिणां संख्या १,००,१५,९७३ अभवत्। अनेन कोविड्वर्धिकसंख्याकानां राष्ट्राणां पट्टिकायां भारतं द्वितीयस्थानमावहति। किन्तु रोगमुक्तिमाने भारतमग्रिमस्थानं वहति। ९५.६% अस्ति भारतस्य मुक्तिमानम्। राष्ट्रे इतःपर्यन्तं १,४५,१३६ जनाः कोविड्बाधया मृताः। अमेरिक्कायां तु ३,१३,५८८ जनाः विनष्टप्राणाः अभवन्।
आविश्वं ७.५कोटि जनाः कोविड्बाधिताः जाताः। ब्रसील् , रूस्, फ्रान्स् इत्येतानि राष्ट्राणि कोविड्बाधायां भारतस्य पृष्ठतः वर्तन्ते।
ब्रिट्टणे नूतनः कोरोणवैराणुः व्याप्यते।
विश्वस्मिन् नूतनां समस्याम् उत्पाद्य जनितकव्यत्ययः प्राप्य नूतनः वैराणुः| अधुना विद्यमानात् भिन्नः भवति नूतनः ।प्रतिशतं सप्तत्यधिकं (70%) व्यापनक्षमता अस्ति अस्य इति आवेद्यते। ब्रिट्टणे नियन्त्रणानां काठिन्यं अवर्धयत्। अतः भारतम् अन्यानि राष्टाणि च ब्रिट्टणं प्रति विद्यमान-यात्राबन्धं समापयन्ति। नूतनवैराणुः अतिव्यापनक्षमयुक्तः इति ब्रिट्टणस्य प्रधानमन्त्री बोरिस् जोण्सणः अवदत्। राष्ट्रस्य स्थितिः अतीवगुरुतरा नियन्त्रणातीता इति च ब्रिट्टणस्य स्वास्थ्य- सचिवः माट् मान्होक् अपि अवदत्।
Saturday, December 19, 2020
ब्रिट्टणे जनितकव्यतियानेन सह नूतनः वैराणुसान्निध्यं प्रत्यभिज्ञातम्। व्यापनक्षमता गुरुतरा।
लण्डन्> कोविड् १९ रोगकारणभूतात् कोरोण वैराणोः भिन्नं नूतनं वैराणुं ब्रिट्टणे प्रत्यभिज्ञातम्। कोविड् बाधितेषु सहस्राधिकेषु रोगिषु नूतनानां वैराणूनां सान्निध्यं प्रमाणी कृतम् । वैराणोः व्यापनक्षमता अधिका इति प्राथमिक अध्ययनावेदनं बहिरागतम्। रोगाणुव्यापनकालः इत्यनेन लण्डने बुधवासरात् कोविड् नियन्त्रणेषु काठिन्यं कृतम्।
जापानराष्ट्रे१५ कि.मी दूरं यावत् गतागतबन्धनम्।
टोकियो> जापानस्य कनेसु एक्स्प्रेस् हैवे मध्ये आपन्ने गतागतसम्मर्दे सहस्राधिकाः जनाः बन्धिताः। अतिरूक्ष-हिमपातेन १५ किलोमीट्टर् दूरं यावत् यानेषु बन्धिताः। भक्ष्यपेयादीन् अलब्ध्वा एव होराः यावत् जनाः उषिताः। 'टोक्यो-निगाट्ट' प्रविश्ययोः मध्ये वर्तमानः मार्गः भवति अयम्। बुधवासरात् आरब्धः भवति गतागतसम्मर्दः ४० होरापर्यन्तम् अभवत्। एकं कार् यानं हिमखण्डे घट्टयन् स्थगितम् इत्यनेन आसीत् गतागतसम्मर्दस्य कारणम्।Friday, December 18, 2020
केरले विद्यालयाः उद्घाट्यन्ते ; SSLC परीक्षा मार्च् १७ तमे आरभ्यते।
अनन्तपुरी> केरलराज्ये विद्यालयाः जनवरि प्रथमेदिने उद्घाट्यन्ते। १०, १२ कक्ष्याणां कृते कोविड्मानदण्डान् अनुशील्य कक्ष्याः प्रचालयिष्यन्ते। प्रोक्तकक्ष्याछात्राः रक्षाकर्तॄणामनुज्ञया विद्यालयं प्राप्य सन्देहनिवारणाय शास्त्रविषयाणां प्रयोगपरिशीलनाय च अमुं कालमुपयोक्तव्याः इति सर्वकारस्य परिकल्पना।
SSLC,+2 कक्ष्याछात्राणां परीक्षाः मार्च् मासस्य १७ तमे दिनाङ्के आरप्स्यते। विद्यालय-उच्चविद्यालयस्तरीयाः ओण् लैन् कक्ष्याः अनुवर्तिष्यन्ते।
कलालयेष्वपि अन्तिमवर्षस्नातककक्ष्याः स्नातकोत्तरकक्ष्याश्च जनुवरि प्रथमदिने एव आरप्स्यन्ते। मुख्यमन्त्रिणः आध्यक्ष्ये प्रचलिते शिक्षा-स्वास्थ्य-उन्नतशिक्षामन्त्रिणाम् उद्योगस्थवृन्दस्य च उपवेशने आसीदिमे निर्णयाः कृताः।
रसना राष्ट्रियान्तर्जालसङ्गोष्ठी 2020 अद्य दशवादने समारभ्यते।
॥अत्र तुदतु स्वागतम् ॥
2020 December 18,19(10-12 AM) Zoom
Meeting ID: 851 7328 4439 Passcode 672229
प्रवेशसूत्रम् - https://us02web.zoom.us/j/85173284439?pwd=YnRoc2ZHdmZYazdBNnVWT2Q4NzNTZz09










