हिमाचलप्रदेशे चतुर्विंशतिलक्ष-सङ्ख्यकानां कर्मकराणाम् अप्रैलमासस्य प्रथमदिनाङ्कतः पारिश्रमिकस्य वर्धनं भविता।
वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:
वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:
2050 संवत्सरे समागते 25% जनेभ्यः श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसंघटनम्
समागतेषु संवत्सरेषु श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसङ्घटनस्य पूर्वसूचना। 2050 संवत्सरे समागते 25% जनेभ्यः श्रवणसंबन्ध पीडा भविष्यति इति 'ग्लोबल् रिपोर्ट् ओण् हियरिङ्' इति आवेदने स्पष्टीकरोति। अणुबाधा, रोगाः, जन्म वैकल्यः, शब्दमलिनीकरणं, जीवितशैलीपरिवर्तनं च कारणत्वेन उच्यते। अतिश्रद्धा दीयते चेत् दोषान् परिहर्तुं शक्यते इति आवेद्यते विश्व स्वास्थ्य सङ्घटनेन।हिमाचलसेनाप्रवेशार्थम् आगतानां युवकानां एन्.एच्. इत्यस्मिन् यानचक्रम् अवरुद्धम्, ते घण्टात्मकं विवादाक्रोशनं कृतवन्तः ।
वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:।
भारत-यू एस् सैनिकसहयोगः विपुलीक्रियते।
नवदिल्ली> फ्लोरिडा मध्ये वर्तमानेन 'यू एस् सेन्ट्रल् कमान्ड्' इत्यनेन, भारत-पसफिक् मण्डले आफ्रिक्कायां च वर्तमानेन यू एस् कमान्ड् इत्यनेन च सह प्रतिरोधसहयोगं बलवत्कर्तुं भारतेन निर्णीतम्। दिनत्रयसन्दर्शनार्थं गतदिने भारतं प्राप्तवता यू एस् राष्ट्रस्य प्रतिरोधसचिवेन लोय्ड् जयिंस् ओस्टिन् इत्यनेन सह कृतायाः चर्चायाः परं भारतस्य रक्षामन्त्री राजनाथसिंहः एव विषयममुं निगदितवान्।
भारतेन सह अमेरिक्कायाः सैनिकसहयोगस्य प्रवर्धनमेव बैडनप्रशासनस्य प्रथमपरिगणनेति ओस्टिन्वर्येण चोक्तम्।
कोविडस्य विनाशाय उन्नतावृत्तितशब्दतरङ्गेण शक्यते।
बोस्टण्> उन्नतावृत्तितशब्दतरङ्गेन कोविड् वैराणुं नाशयितुं शक्यते इति अनुसन्धानस्य फलम्। यु एस् मासच्युसेट्स् संस्थायाः अनुसन्धाताः एव नूतनानुसन्धानस्य पृष्टतः। मनुष्याणां श्रवणागोचरान् उन्नतावृत्तिसहितान् शब्दतरङ्गान् प्रति कथं प्रतिकरोति इति अनुसन्धानं कृत्वा आसीत् नूतनं अध्ययनम्। चिकित्सायाम् उपयुज्यमानानाम् उन्नतावृत्ति-शाब्दतरङ्गाणां प्रकम्पनेन कोविडादि वैराणुनां नाशं भवति इति एतैः प्रत्यभिज्ञाताः। Mechanic's And Physics of Solid इति पत्रिकायाम् आवेदनमिदं प्रकाशितम् अस्ति।पाकिस्थानप्रधामन्त्री इम्रान् खानः कोविड्बाधितः।
राष्ट्रस्य वाक्सिनीकरणबोधवत्करणस्य अंशतया इम्रान् खानः गुरुवासरे वाक्सिनं स्वीकृतवानासीत्। कोविडस्य तृतीयः तरङ्गः आराष्ट्रं बाधितः इति सर्वकारेण गतसप्ताहे स्पष्टीकृतमासीत्।
पाकिस्थाने निखिलं षट् लक्षाधिकाः जनाः कोविड्बाधिताः, १३,७९९ जनाः मृत्युमुपगताः इति जोण् होप्किन्स् विश्वविद्यालयेन प्रकाशिते आवेदने सूचितम्।
कोविडस्य तृतीयतरङ्गः - यूरोपीयराज्येषु भागिकं पिधानम्।
पारीस्> कोविड् महामारेः तृतीयतरङ्गं नियन्त्रयितुं फ्रान्स् , पोलण्ट् इत्यादिषु राष्ट्रेषु भागिकपिधानं प्रख्यापितम्। पारीस् नगरमभिव्याप्य १६ नगरेषु शुक्रवासरादारभ्य नियन्त्रणानि विधत्तानीति तत्रत्यः प्रधानमन्त्री जीन् कास्टेक्स् इत्यनेन निगदितम्।
गतासु २४ होरासु ३५,००० नूतनानि प्रकरणानि आवेदितानि। १२०० रोगिणः राष्ट्रे अतितीव्रविभागे परिचर्यायां वर्तन्ते इति स्वास्थमन्त्रिणा उक्तम्।
पोलण्टे कोविडस्य तृतीयतरङ्गः अतितीव्रः जातः। अतः राष्ट्रे कर्कशं पिधानं विधास्यते इति अधिकृतैरुक्तम्। ह्यः २२,९९८ जनाः रोगबाधिताः अभवन्।
जर्मनी देशे अपि जनितकपरिवर्तितः कोविड्रोगः शीघ्रं व्याप्यते । तत्र १७,४८२ रोगप्रकरणानि २२६ मरणानि च आवेदितानि।
जाग्रत्ताविषये अनवधानता - कोविड्बाधितानां संख्या वर्धते।
नवदिल्ली> भारते कोविड्रोगबाधितानां प्रतिदिनसंख्या वर्धते। गतदिने ३५,८७१ जनाः रोगबाधिताः अभवन्। डिसम्बर् ६ दिनाङ्कात्परम् उच्चतरा संख्या भवत्येषा।
महाराष्ट्रे एव रोगबाधिताः अनुदिनं वर्धते। गतदिने २३,००० अधिकं जनाः रोगबाधिताः जाताः। मरणान्यपि तत्रैव अधिकतरं दृश्यन्ते - १७२। पञ्चाबे ३५ जनाः कोविडेन मृत्युवशं गताः।
बन्धं बलवत्कर्तुं भारत-कुवैट् आयोगः।
नवदिल्ली> विभिन्नमण्डलेषु सहयोगस्य शक्तीकरणाय भारतकुवैट् राष्ट्राभ्यां संयुक्तायोगः रूपीक्रियते। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, कुवैट् विदेशकार्यमन्त्री षैख् डो. अहम्मद् नासिर अल् मुहम्मद् अल् सहाब् इत्येतयोः उपवेशने एवायं निर्णयः कृतः।
ऊर्जः, आर्थिकः, निक्षेपः, मानवशेषी, उद्योगः, संस्कृतिः, शास्त्रम्, ऐ टि, स्वास्थ्यं, शैक्षिकं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु आयोगः प्राधान्यं कल्पते।
त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता।
हरिद्वारम्> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।
रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति अखाडसंस्थया निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तिप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।
निर्वाचनप्रचारणं संस्कृतभाषायामपि
कोविड् रोगवर्धनं, प्रधानमन्त्रिणा मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः।
नवदिल्ली> राष्ट्रस्य विविधराज्येषु कोविड् रोगिणां संख्या वर्धिता इत्यनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः। अद्य ओण् लैन् द्वारा आसीत् उपवेशनम्।
अस्मिन् संवत्सरारंभे कोविड् व्यपने न्यूनताभवत्। चेत् अपि अधुना पुनरपि व्यापनम् अनियन्त्रितं भवति। प्रतिरोधप्रवर्तनषु जनानां वैमुख्यम् एव रोगव्यापनवर्धनस्य कारणम् इति केन्द्रस्वास्थ्यमन्त्री हर्षवर्धनः अवदत्।
युद्धेन भार्यायाः तथा १३ पुत्राणां जीवाः संग्रहीताः। १२ पवित्रैः सह खातून् पितामहः।
खातून् पितामहः पवित्रैः सह स्वस्य हर्बनूष् ग्रामे। (चित्रं-AFP)इद्लिब्> सरियस्य आभ्यन्तर संग्रामेण अब्दुल् रसाख् अल् खातून् इत्यस्य कृषकस्य भार्यायाः तथा १३ पुत्राणां जीवाः संग्रहीताः। अवशिष्टानां १२ पवित्राणां रक्षाकर्तृत्वं ८४ वसस्कस्य पितामहस्य दायित्वमभवत्। एषः खातून् पितामहः हमयदेशस्य सम्पन्नः कृषकः आसीत्। किन्तु दशवर्षाणि यावत् अनुवर्तमानं युद्धं तस्य कुटुम्बं सम्पदं च अपाहरत्। युद्धे भागं स्वीकृत्य सुताः मृताः। गृहस्योपरि अग्निबाणपतनेन भार्या च मृताः। आभ्यन्तरयुद्धेन सिरियस्य सामान्यस्थितिः अधुना एवम् अनुवर्तते।
सुन्दरनगरमहाविद्यालयसाप्ताहि
सौद्यां यात्रानिरोधः पुनरपि दीर्घीकृतः।
रियादः> सौदी अरेबियाराष्ट्रे अन्ताराष्ट्रीयविमानसेवामुपरि विहितः यात्रानिरोधः मेय् १७तमपर्यन्तं दीर्घीकृतः। येषु राष्ट्रेषु कोविड्व्यापनस्य मानं न्यूनमस्ति तेभ्यः राष्ट्रेभ्यः आगतानां विमानानां यात्रानुमतिः दास्यति।
भारते रोगव्यापनम् अधिकतरं वर्तते इत्यतः यात्रानिरोधः अनुवर्तते। अधुनातनकाले सौदीपौराणां देशात् बहिः, विदेशीयानां देशान्तश्च सञ्चारनिरोधः विद्यते।
विद्यालयानां निकटे तैलेन्धनोत्क्षेपणयन्त्राणि मा सन्त्विति बालाधिकारायोगः।
अनन्तपुरी> केरले विद्यालयानां समीपे ५० मीटर् परिमितावधौ पेट्रोल्-डीसलादितैलेन्धनानाम् उत्क्षेपणयन्त्रेभ्यः प्रवर्तनानुज्ञा न दातव्या इति राज्यस्थेन बालकाधिकारायोगेन आदिष्टम्। छात्राणां सुरक्षामालक्ष्य एवायं प्रक्रमः। अनुज्ञादानात्पूर्वं तद्देशशासनसंस्थाभिः दूरसम्बन्धाः मानदण्डाः पालिताः इति दृढीकरणीयम्।
एस् एस् एल् सि, प्लस् २ परीक्षाः परिवर्तिताः।
अनन्तपुरी> केरले एस् एस् एल् सि, प्लस् २, वि एछ् एस् ई कक्ष्याणां वार्षिकपरीक्षाः परिवर्तिताः। मार्च् १७ तमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं प्रचालयितुं निश्चिताः इमाः परीक्षाः निर्वाचनविज्ञप्तेः आधारत्वेन परिवर्तयितव्याः इति सर्वकारेण केन्द्रनिर्वाचनायोगः अपेक्षितः आसीत्। सर्वकारस्य आवेदनं निर्वाचनायोगेन अङ्गीकृतमित्यतः एप्रिल् मासस्य ८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं प्रचालयितुं सर्वकारेण पुनर्निश्चितम्।
कोविडं प्रति नासिक्यवाक्सिनस्य परीक्षणम् आरब्धम्।
हैदराबादः> भारत बयोटेक् संस्थया पोषितस्य नासिकाद्वारा दीयमानस्य कोविड्वाक्सिनस्य प्रारम्भप्रयोगपरीक्षणं [Clinical Experiment] हैदराबादे समारब्धम्। ह्यः दश सन्नद्धसेवकाः वाक्सिनं स्वीकृतवन्तः।
पट्न, चेन्नै, नागपुरम् इत्येतेषु नगरेष्वपि नासिक्यवाक्सिनस्य परीक्षणम् अचिरादारभ्यते। प्रथमतया आराष्ट्रं १७५ जनेषु वाक्सिनमिदं परीक्ष्यते। 'वाषिङ्टण् यूणिवेर्सिटि स्कूल् ओफ् मेडिसिन्' नामकसंस्थया सहयुज्य एव 'भारतबयोट्क्' इत्यनेन नासिक्यवाक्सिनं परिपोषितम्। सूचीप्रयोगं विना नासिकाद्वारा वाक्सिनमात्राः स्वीकर्तुं शक्यते इति विशेषता।
न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते - वाक्सिनीकरणाय प्राथम्यं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता।
मुम्बै> न्यायाधिपेभ्यः न्यायवादिभ्यः च प्रथमगणनया वक्सिनीकरणं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते इत्यपि न्यायालयेन उक्तम्। मुम्बै नगरस्थाः न्यायवादिनः एव याचिकां प्रदत्तवन्तः। समाजे न्ययविभागभिन्नाः कर्मकराः अपि कोविड् नियन्त्रण-प्रवर्तने निरताः आसन्, शुचीकरण-कर्मकराः अपि श्लाघनीयकर्मसु व्यापृताः आसन्। तानपेक्षया न्यायालय-संबन्धप्रवर्तकेभ्यः अधिकार्हता नास्ति इति न्यायालयेन उक्तम्। टैट्टानिक् इति चलनचित्रे नौकाधिपः स्वरक्षां विगणय्य सर्वेषां सुरक्षायैः प्रयत्नं कृतवान् इतिआदर्शात्मकी घटना मनसि निधाय वर्तव्याः इत्यपि न्यायालयेन न्यायवादिनः उपदिष्टाः।
। कृवान् C.। आदर्शात्मकी - - - । वर्तते - आत्मनेपदी। लोटि किमिति विचिन्त्यताम्।
केरले निर्वाचनविज्ञप्तिः श्वः।
अनन्तपुरी> केरले विधानसभानिर्वाचनार्थं शुक्रवासरे विज्ञप्तिः भविष्यति। श्व आरभ्य १९तमदिनाङ्कपर्यन्तं नामनिर्देशपत्रिकासमर्पणाय अवसरः अस्ति। २० दिनाङ्के पत्रिकाणां सूक्ष्मशोधना विधास्यति। पत्रिकायाः प्रतिनिवर्तनाय २२ दिनाङ्कं यावत् अवकाशः अस्ति। कोविडनुशासनानि कर्कशेण परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्ते। तदर्थं मार्गदर्शकानुशासनानि प्रख्यापितानि सन्ति।
महाशिवरात्रिव्रतः-
फाल्गुणमासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिव्रतः। अस्मिन् व्रते परिलक्ष्यते हिन्दु-शैवसम्प्रदायानां समीपे एकं गुरुत्वपूर्णं धर्मानुष्ठानम्। अस्मिन् व्रते वहवः भक्ताः शिवलिङ्गस्योपरि गङ्गाजल-दुग्ध-विल्वपत्रेण पूजार्चनादि कुर्वन्ति। परन्तु उपवासीनः रात्रौ शिवलिङ्गं दुग्ध-घृत-दधि-मधु-गङ्गाजलेन स्नानकार्यादि सम्पन्नं कृत्वा विल्वपत्र-शिवपूजोपयोगीपुष्पैः सह "ॐ नमः शिवाय" इति महामन्त्रजपेन पूजार्चनादि सुसम्पन्नं कुर्वन्ति। एवञ्च तान्त्रिकाः सिद्धिलाभाय साधनां कुर्वन्ति। अतः सर्वेषु व्रतेषु सर्वश्रेष्ठः महाशिवरात्रिव्रतः इति कथ्यते। अस्मिन् व्रते यः उपवासं जागरणञ्च ज्ञात्वा अज्ञात्वा आचरति सः स्वर्गं गच्छतीति वदन्ति शास्त्राणि। दिवसे अस्मिन् भारतवर्षस्य द्वादश (12) ज्योतिर्लिङ्गे तथा सर्वत्रे शिवमन्दिरे पूजार्चनादि प्रचलति।
लेखकः-
साहित्याचार्यः तापसबायेनःवैदिकगणसदस्य:।
भूमेः अन्तर्भागे नूतनम् आवरणम् - वैज्ञानिकाः विस्मिताः।
इतः पर्यन्तं लभ्यमानं विवरणानुसारं भूमेः चत्वारः भागाः सन्ति। एते भूवल्कं मान्टिल् बाह्यावरणम् , आन्तरिकावरणम् इति। किन्तु इदानीम् आन्तरिकावरणस्य अन्तर्भागे नूतनः भागः वैज्ञानिकैः प्रत्यभिज्ञातः। ओस्ट्रेलियायाः राष्ट्रिय विश्वविद्यालयस्य भौमवैज्ञानिका जोवान् स्टेफान्सस् भवति अस्य अनुसन्धानस्य अध्यक्षा| जियो फिसिकल् पत्रिकायाम् अनुसन्धानस्य फलं प्रकाशितम् अस्ति।७५ तम स्वतन्त्रतादिन-महोत्सवाय भारतसर्वकारः।
नवदिल्ली> ७५ तम स्वतन्त्रतादिन-महोत्सवाय भारतसर्वकारेण समालोच्य ते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये २५९ अङ्ग समितिः रूपीकृता। एक संवत्सरपर्यन्तं दीर्घितः महोत्सवः एव सर्वकारेण उद्दिश्यते। केन्द्रमन्त्रिणः सहमन्त्रिणश्च समित्याम् अन्तर्भवन्ति। विपक्षदलनेतारः भूतपूर्व राष्ट्रपतयः प्रधानमन्त्रिणः च समित्याम् अङ्गत्वेन सन्ति।
कोविड् पुनः वर्धते - ६ राज्येभ्यः दिल्ली-चण्डिगडाभ्यां च जाग्रतासूचना दत्ता।
नवदिल्ली> भारते कोविड्रोगिणां संख्या पुनरपि वर्धते। गत२४होराभ्यन्तरे १८,३२७ जनाः रोगबाधिताः अभवन्। जनु. २०दिनाङ्कानन्तरं प्रथममेव दिनैकस्य रोगिणां संख्या एतावत्पर्यन्तं प्राप्नोति।
हरियाणा आन्ध्रप्रदेशः ओडिशा गोवा हिमाचलप्रदेशः उत्तराखण्डः दिल्ली चण्डीगढः इत्येषां सर्वकाराणां कृते जाग्रत्तासूचना दत्ता अस्ति। उपर्युक्तस्थानानां ६३ जनपदेषु स्थितिः आशङ्काजनका वर्तते। एतेभ्यः जनपदेभ्यः प्रातिवेशिकराज्येषु रोगसंक्रमणसम्भाव्यता अस्तीति जाग्रत्तासूचना दत्ता ।
वाषिङ्टण्> ओक्सिजन् प्राणवायोः परिमाणं भूमौ न्यूनीभवति इत्यस्ति अध्ययनफलम्। Nature Geo Science इति पत्रिकायां भूमेः अन्तरिक्षप्राणवायोः भविष्यकालः इति उपन्यासे एव एवं अशङ्कां प्रकाशयति। २०० कोटि संवत्सरानन्तरं एवं त्वरितवेगेन भविष्यति इति उपन्यासे उच्यते।
केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् मेलनं चेर्त्तल देशे
आलप्पुष़> केरल-संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् उपवेशनम् मार्च् ५, ६ दिनाङ्कयोः प्रचलिष्यति। चेर्त्तल एन् एस् एस् सभागृहे अद्य प्रतिनिधिसम्मेलनेन समारभ्यमणस्य उपवेशनस्य कार्यक्रमाः अनुशासित कोविड् मानदण्डपालनेन भविष्यन्ति इति मुख्यकार्यकर्त्र्याकृष्णप्रियया उक्तम् । ६ दिनङ्के आयोक्ष्यमाणं मेलनं चलनचित्रनटः देवः उद्घाटयिष्यति। प्रमुखः संस्कृतप्रचारकः आचार्यश्री विशाखं तिरुनाल् महोदयः समादरिष्यते च।
2021- संवत्सरान्ते कोविड्19 वैराणुः नाशं यति इति विचिन्तनं बुद्धिहीनम् - विश्व स्वास्थ्य सङ्घटनम्।
जनीव> २०२१ संवत्सरान्ते केविड् वैराणुः नाशं याति इति विचिन्तनं मौढ्यम् अपक्वं च भवति इति विश्व स्वास्थ्य सङ्घटनेन उक्तम्। किन्तु कोविडं विरुद्ध्य वाक्सिनौषधानां प्रयोगः रोगव्यापनत्वं मरणसंख्या च न्यूनं कुरुतः इति त्वरितयोजनायाः निदेशकः मौकल् रयानः अवदत्। अणुसङ्क्रमणस्य न्यूनीकरणे अतीव श्रद्धालवः भवामः इति भवामः इत्यपि तेनोक्तम्।
चीना राष्ट्रे दरिद्रा निर्माजनं सम्पूणम् अभवत् - षि जिन् पिङ्
बेय्जिङ्> तीव्रदारिद्र्यं निर्माजनं कृतम् इति चीनस्य राष्ट्रपतिः षि जिन् पिङ्ः अवदत्। अल्पकालेन कोटिशान् जनान् दारिद्र्यात् निर्मुक्तं कर्तुम् अन्यराष्ट्राणि अशक्तानि इति तेन उक्तम्। बेय्जिङ् मध्ये कृते विशिष्टकार्यक्रमे भवति षी जिन्पिङ्स्य ख्यापनम्। इतिहासे लेख्यमानं आदर्शभूतं मनुष्याद्भुतं भवति इदम् इति तेनोक्तम्।कोविड् वाक्सिनीकरणं - द्वितीयसोपानं प्रधानमन्त्रिणा उद्घाटितम्।
नवदिल्ली> दिल्ल्याम् 'एयिम्स्' आतुरालये प्रधानमन्त्रिणः 'कोवाक्सिन'स्वीकरणेन भारते कोविड्प्रतिरोधसूचीप्रयोगस्य द्वितीयं सोपानं समारब्धम्।षष्ट्यधिकवयस्कानां तथा ४५ अधिकवयस्कानां कठिनरोगिणां कृते च द्वितीयसोपाने वाक्सिनीकरणं विधत्तम्। चेन्नै मध्ये सर्वकारीयवैद्यशास्त्रकलालये उपराष्ट्रपतिः वेङ्कय्यनायिडुः वाक्सिनं स्वीकृतवान्। केन्द्रगृहमन्त्री अमित् शाहः , विदेशकार्यमन्त्री एस् जयशङ्करः,केन्द्रसहमन्त्रिणः बिहारस्य मुख्यमन्त्री नितीष्कुमारः इत्यादयः प्रमुखाः गतदिने वाक्सिनं स्वीकृतवन्तः।