OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 3, 2026

 वि बी जी रांजी परियोजना आरब्धा। 

विरुद्धवादैः बहूनि राज्यानि। 

नवदिल्ली> 'विकसित भारत-गारन्टी फोर् रोज़गार् आन्ड् आजीविका मिषन्' [Vikasit Bharath Garentee for Rosegar and Aheevika Mission]नामिका केन्द्रसर्वकारस्य अभियोजना बुधवासरे समारब्धा। ग्रामीणमण्डले सामान्यश्रमिकानां महिलानां आर्थिकस्थिरताम् उत्पादयितुम् आरब्धायाः महात्मा गान्धी  ग्रामीण कर्मदृढीकरणाभियोजनायाः स्थाने आरब्धा अस्तीयं योजना। १२५ कर्मदिनानि अस्यां दृढीकरोति। पूर्वम् एतत् १०० कर्मदिनानि आसन्। 

 किन्तु विपक्षीयराज्यसर्वकाराणां प्रतिषेधः नूतनाभियोजनां प्रति जातः। आहत्य व्ययस्य ४०% राज्यसर्वकारैः ऊढव्यमिति नूतनव्यवस्था। महात्मागान्धी अभियोजनायां १०% आसीत्। ९०% केन्द्रस्य भागः आसीत्। इदानीं ६०% एव। विपक्षीयसर्वकारैः सह भाजपा दलेन शास्यमाने बिहारे मध्यप्रदेशराज्ये च प्रतिषेधः उन्नीयते। केन्द्रप्रशासनांशस्य न्यूनता एव प्रतिषेधहेतुः।