OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 3, 2026

 युक्रैने रष्यायाः व्योमाक्रमणं - २० मरणानि।

रष्यया कृते आक्रमणे भग्नः भवनसमुच्चयः। 

 

कीव्> युक्रैनस्य राजधानीनगरे कीवे रष्यया कृते व्योमाक्रमणे २० जनाः हताः। नवत्यधिके व्रणिताश्च। बुधवासरे रात्रौ आरब्धमाक्रमणं गुरुवासरस्य प्रभातपर्यन्तं अनुवृत्तम्। रष्यायाः तैलसम्भरणशालाः प्रति युक्रैनेन कृतस्य आक्रमणस्य प्रतिक्रिया इति रष्यायाः सैनिकाधिकारिभिः उक्तम्। 

  कीवनगरस्य उपत्रिंशत् स्थानेषु आक्रमणमभवत्। विंशत्यधिके वासकेन्द्राणि भग्नानि। कतिपयभवनसमुच्चयेषु अग्निबाधा आपन्ना। ७४ दीर्घदूरमिसैलशस्त्राणि, २४ बालिस्टिकमिसैलशस्त्राणि, ४९६ ड्रोणानि च रष्यया प्रयुक्तानि। 

  बुधवासरे रात्रौ युक्रैनः रष्यायाः बृहत्तमं कामपि तैलशुद्धीकरणशालां  आक्रामत्। अत्र अग्निबाधा वृत्तान्तीकृता।  अपि च रष्यायाः सैनिकप्रक्रमाय  उपयुज्यमानः रेल् सेतुः अपि युक्रेनेन आक्रान्तः।