आयत्तुल्ला खमेनीवर्यस्य अन्त्यशुश्रूषाः अद्य आरभ्यते। 
आयत्तुल्ला खमेनी।
दुबाय्> पश्चिमेष्यायुद्धस्य प्रथमदिने यू एस्-इस्रयेलाभ्यां हतः इरानस्य परमोच्चात्मीयनेता आयत्तुल्ला खमेनी इत्यस्य अन्त्यकर्माणि शनिवासरे आरभ्यते। संस्कारशुश्रूषाकार्यक्रमाः षट् दिनानि सन्ति।
इरानस्य राजधानीनगरे टेहराने खोमनगरे इराखस्थे कर्बलाप्रदेशे च खमीनेः मृतदेहं वहन्ती विलापयात्रा सम्पत्स्यते। इरानस्थे मषदनामके जन्मनगरे भवेत् तस्य अन्त्यविश्रान्तिः।
खमेनीवधानन्तरं युद्धं तीव्रं जातं कालदैर्घ्यं चाभवदित्यतः एव अन्त्यकर्मसु विलम्बो जातः।
किन्तु खमीनेः अन्त्यश्रूषाकार्यक्रमेषु तस्य पुत्रः तथा वर्तमानीनः परमोच्चनेता च आयत्तुल्ला मोज्ताबा खमेनी न भागं करिष्यति। इस्रयेलस्य वधभीषां सुरक्षाकार्ये आशङ्कां चालक्ष्य एवायं निर्णय इति इरानीयपरमोच्चनेतुः भारतप्रतिनिधिः आयत्तुल्ला हक्कीम् इलाही इत्यनेन निगदितम्।