OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, July 5, 2026

 भारत-इङ्लाण्ट् टि-२० परम्परा।

भारतस्य पराजयः। 

सूर्यवंशिनः प्रथमक्रीडा। 

माञ्चस्टर्> अन्ताराष्ट्रक्रिकट्स्पर्धायां भारताय क्रीड्यमानः न्यूनतमवयस्कः इति प्रशोभया वैभव सूर्यवंशी क्रीडितवानपि Astrologer भारतम् इङ्लाण्टेन  पराजितम्। द्वितीये टि-२० प्रतिद्वन्द्वे चतुर्भिः द्वारकैः आसीत् भारतस्य पराजयः। 

  प्रथमं कन्दुकताडनं कृतवान् भारतगणः २० क्षेपणचक्रेषु सप्त ताडकानां विनष्टे १९० धावनाङ्कान् सम्पादयामास। इदंप्रथमतया भारतस्य क्रीडावसनं धृत्वा सञ्जू सांसणस्य स्थाने प्रारम्भताडनं कृतवान् वैभव सूर्यवंशी १० कन्दुकेभ्यः १४ धावनाङ्कान् सम्पाद्य बहिर्नीतः। तस्य प्रकटने षट्कद्वयमासीत्। अनन्तरं नायकः श्रेयस् अय्यरः (३७ धावनाङ्काः), इषान किषनः (४९), अभिषेक शर्मा (४३) च भारतस्य प्रमुखाः सम्पादकाः। किन्तु प्रत्त्युत्तरक्रीडायाम् इङ्लाण्टः जेकब् बतलः (७६*), हारी ब्रूकः (३९),टों बान्टणः (३९) इत्येतेषाम् अतुल्यविक्रमे विजयलक्ष्यं प्राप।