नरेन्द्रमोदिनः त्रिराष्ट्रसन्दर्शनं श्वः आरभ्यते।
नवदिल्ली> राष्ट्रसुरक्षा, व्यापारः, समुद्रसुरक्षा इत्यादिषु भारतेन सह सहयोगं लक्ष्यीकृत्य प्रधानमन्त्री नरेन्द्र मोदी इन्डोनेष्या, आस्ट्रेलिया, न्यूसिलान्टः इत्येतानि राष्ट्राणि सम्पश्यति। जूलाय् षष्ठदिनाङ्कतः ११ तमदिनाङ्कपर्यन्तमेव सन्दर्शनम्।
४० वर्षेभ्यः परमेव कश्चन भारतप्रधानमन्त्री न्यूसिलान्टं सम्पश्यति।
