अयोध्यासमर्पितधनापहरणम्।
निर्णायकोपवेशनं श्वः।
अयोध्या> राममन्दिरे भक्तजनैः समर्पितानां सुवर्ण-रजत-मुद्रादिधनानाम् अपहरणविवादस्य आधारे श्रीराम जन्मभूमितीर्थ मन्दिरपालनन्यासस्य [Temple Trust] प्रथमोपवेशनं सोमवासरे अपराह्णे त्रिवादने सम्पत्स्यते। न्यासाध्यक्षस्य महन्त् गोपाल दासस्य आश्रमे अस्ति उपवेशनम्।
पञ्चसंख्याकानि प्रकरणानि चर्चिष्यन्ते। पूर्वीयकार्यदर्शिप्रमुखः चम्पत् रायि, पूर्वसदस्यः अनिल मिश्रः इत्यनयोः स्थानत्यागपत्रमधिकृत्य भवेत् प्रथमा चर्चा।
राममन्दिरस्य शासननिर्वहणस्य कार्यक्षमता, २०२५-२६ वर्षस्य आयव्ययानाम् अवलोकनम् इत्यादीनि चर्च्यविषयेषु सन्ति।