OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 2, 2026

 मिसोराम‌े एस् ऐ आर् - 

४६,००० नामानि मतदानावल्याः बहिः। 

 ऐसोल्> मिसोरामराज्यस्य एस् ऐ आर् प्रक्रमे सम्पूर्णे ४६,१९१ मतदानिनः मतदानावल्याः निष्कासिताः। राज्यस्य joint chief electoral officer पदीयेन एत्तल् रोत्तङ् पुयी नामकेन उक्तमिदम्। निष्कासितेषु २१,२९० जनाः मृताः, ८,३५२ जनाः नाधिगताः,  १३,९९२ जनाः स्थानान्तरं गताः २२४५ नामानि युगलीकृताः इति च तेन निगदितम्। 

   मेय् मासस्य २० तमे दिनाङ्के आरब्धा तीव्र-मतदानावलीपरिष्करणप्रक्रिया [एस् ऐ आर्] रविवासरे सम्पूर्णा अभवत्। ८,२८,८७७ मतदायकाः एव राज्ये वर्तिष्यन्ते। संक्षिप्तावलिः जूलै चतुर्थे दिनाङ्के प्रकाशयिष्यति।