पश्चिमेष्या सन्दिग्धता।
तर्कवितर्काः नयतन्त्रचर्चया परिहर्तव्याः इति इरानं प्रति भारतम्।
नवदिल्ली> पश्चिमेष्यायां वर्तमानीनावस्थाः अधिकृत्य भारतस्य प्रधानमन्त्री नरेन्द्र मोदी इरानस्य राष्ट्रपतिः मसूद पेसष्कियानः च मिथः दूरवाणीद्वारा सम्भाषितवन्तौ। विवादाः राष्ट्रैः सह परस्परचर्चाभिः नयतन्त्रव्यवहारैः चैव परिहर्तव्याः इति भारतस्य दृढमतं मोदिवर्यः पुनरवोचत्।
पश्चिमेष्यायां शाश्वतशान्तेः पुनःसंस्थापनाय निरन्तरपरिश्रमाः अपेक्षिताः इति प्रोक्तवान् मोदिवर्यः निर्बाधं महानौकायातायातसुविधा व्यापारसुरक्षा च दृढीकरणीया इति स्पष्टीकृतवान्।