फिफा विश्वचषकः।
प्रचतुर्धांशचक्रम् अद्य आरभ्यते।
प्रथमस्पर्धायां कानडा - मोरोको।
टेक्सस्> विश्वचषकपादकन्दुकं पूर्वचतुर्धांशस्य उत्साहं प्रविशते। ४८ स्पर्धागणाः २६ गणा इति आकुञ्चति।
प्रथमप्रतिद्वन्द्वे आतिथेयराष्ट्रं कानडा मोरोको प्रति स्पर्धते। शनिवासरे रात्रौ १०. ३० वादने अस्ति स्पर्धा। रविवासरे प्रत्युषसि २. ३० वादने फ्रान्सः पराग्वेदलं प्रति द्वन्द्वते।