OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 2, 2026

 भारतं पाकिस्थानं च कारागारबद्धानाम् आवलिः मिथः समार्पयताम्। 


नवदिल्ली> भारतीयविदेशकार्यमन्त्रालयेन निगदितं यत् भारतं पाकिस्थानं च कारागारबद्धानां नागरिकाणां धीवराणां चावलिं परस्परं हस्तान्तरम् अकुर्वताम्। भारतेन अत्र कारागारे बद्धानां ३८६ पाकिस्थानीयनागरिकाणां ५३ धीवराणां च आवलिः पाकिस्थानाय समर्पिता। पाकिस्थानेन ५२ भारतीयनागरिकाणां १९८ धीवराणां च नामावलिः भारताय दत्ता च। 

 २००८ तमे वर्षे उभाभ्यामपि राष्ट्राभ्यां व्यवस्थापितं सन्धिमनुसृत्य प्रतिवर्षं जनुवरी १,  जूलाय् १ दिनाङ्कद्वये सन्दिग्धसाहचर्ये निगृह्य कारागारे बन्धितानां नागरिकाणां धीवराणां च नामावलिः परस्परं समर्पितव्या अस्ति। एतदनुसृत्य एवायं प्रक्रमः। दण्डकालपरिधिं समाप्य पाकिस्थानकारागृहे वर्तमानाः ये भारतीयनागरिकाः धीवराश्च सन्ति, तेषां विमोचनं अचिरेणैव कार्यमिति भारतेन अपेक्षितम्।