OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 3, 2026

 फिफा विश्वचषकः।

बल्जियमः पूर्वचतुर्धांशे।

यू एस्> क्रीडायाः ८५ तमनिमेषं यावत् २-० इति लक्ष्यसम्पादनेन पूर्वचतुर्धांशप्रवेशं दृढीकृतवन्तं सेनगलदलं प्रतिलोम्य उज्वलं प्रत्यागमनं कृतवान् बल्जियमदलः ३-२ इति लक्ष्यक्रमेण प्रचतुर्धांशचक्रं प्राविशत्।

  क्रीडायाः २४, ५१ तमयोः निमिषयोः प्राप्तेन लक्ष्यद्वयेन सेनगलः अग्रतां प्राप्तवानासीत्।  ५६ तमे निमिषे बल्जियमेन कृतेन स्थानेतरादेशत्वद्वयेन ते क्रीडायां नूतनमुत्साहम् ऊर्जं च स्वीचक्रुः। ततः ८६ तमे निमिषे रोमेलु लुकाकु इत्यनेन आश्वासलक्ष्यं प्राप्य ८९ तमे निमिषे नायकः यूरी टीलमन्स् इत्यनेन समस्थितिं च बल्जियमः  सम्प्राप। 

  अनन्तरम् अधिकसमयं दीर्घितस्य प्रतिद्वन्द्वस्य क्षतिपरिहारसमये [injury time] नायकेनैव स्वदलस्य तृतीयलक्ष्यमपि सम्पादितम्। तथा अत्यन्तमुद्वेगभरिते उत्साहजनके च प्रतिद्वन्द्वे लक्ष्यद्वयस्य पृष्ठतः स्थितः बल्जियमः त्रीणि लक्ष्याणि प्रतिकृत्वा सेनगलं पराजित्य प्रचतुर्धांशचक्रं प्राविशत्।