उन्मादकवस्तून् विरुद्धय केरलेषु तूफान
विद्यार्थिनः सन्देशवाहकाः अभवन्
केरलस्य विद्यालयाः अपि मन्दमन्दम् उन्मादकवस्तूनाम् उपयोगः भविष्यति इति समाजस्य दुखस्था ज्ञात्वा सर्वकारेण ओपरेषन् तूफ़ान ख्यापितम्। अस्य भागतया केरलस्य विविध विद्यालयेषु उन्मादकवस्तून् विरुध्य प्रतिज्ञा स्वीकृता।
MTUP तृक्कुन्नप्पुष विद्यालये तादृशरीत्या विभिन्नः कार्यक्रमः समभवत्। विद्यालय छात्राः जनानां बोधाय मार्गेषु वीथीनृत्तम् (flash mob) अकुर्वन्। इदानीं सामाजिकमाध्यमेषु छात्राणां कार्यक्रममधिकृत्य चर्चाः प्रचलन्ति।
