OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 3, 2026

 '८६' आफ्रिकायाः दुरन्तसंख्या!

यू एस्> फिफा विश्वचषके ८६  काचन दुरन्तसंख्या इति आफ्रिकीयक्रीडादलैः चिन्त्यते चेत् न्यायतः नाद्भुतम्। knock out इति निर्णायकस्पर्धासु डि आर् कोङ्गो, सेनगल्, ऐवरीकोस्ट् इत्येतेषाम् आफ्रिक्कीयदलानां पराजयस्य निर्णयः ८६ तमे निमिषे आसीत्। ह्यः सेनगलं  विरुध्य बल्जियस्य लुकाकु इत्यनेन प्रथमा लक्ष्यप्राप्तिः ८६ तमे निमिषे आसीत्। कोङ्गों विरुध्य हारि केय्नेन इङ्गलान्टस्य विजयलक्ष्यं ८६ तमे निमिषे! तावत्पर्यन्तं सेनगलः २-० इति लक्ष्यक्रमेण अग्रे आसीत्। 

   कोंगो ७० निमेषाधिकं यावत् अग्रतां संस्थाप्य आसीत् हारि केयन् वर्यस्य लक्ष्यद्वयं (७५, ८६)।

   ऐवरी कोस्टदलं प्रति नोर्वे दलस्य एर्लिंग हालण्टः ८६ तमे निमिषे लक्ष्यं प्राप्तवान्। प्रथमं लक्ष्यं प्राप्तं नोर्वेदलं विरुध्य ऐवरीदलम्  अमद् डियीलो इत्यनेन समस्थितिं [७४ तमे निमिषे] प्राप्तवदपि ८६ तमे निमिषे हालण्टः विजयक्ष्यं प्राप्तवान्।

Latest news Latest news