OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, July 5, 2026

 भारतीयक्रिकट् नभोमण्डले नूतनसूर्योदयः। 

वैभव सूर्यवंशी भारताय प्रथमतः क्रीडितवान्।

वैभव सूर्यवंशी । 

सच्चिन् टेण्डुल्करस्य कीर्तिमानम् अतिक्रान्तम्। 

माञ्चस्टर्> भारतीयवरिष्ठक्रिकट्गणस्य परं नूतनः ऊर्जवैभवः। अन्ताराष्ट्र क्रिकट् स्पर्धासु भारताय प्रथमतया क्रीडन् न्यूनतमवयस्कः इति प्रशस्तिः कौमारतारे वैभवसूर्यवंशिनौ प्रतिष्ठाप्यते। शनिवासरे माञ्चस्टर् क्रीडाङ्कणे इंगलान्टं विरुध्य सम्पन्ने द्वितीये टि-२० प्रतिद्वन्द्वे क्रीडितवान्। 

  १५ वर्षाणि ९९ दिनानि चास्ति सूर्यवंशेः वयः। १९८९ तमे वर्षे पाकिस्थानं विरुध्य निकषस्पर्धायां  सच्चिन् टेण्डुल्करे इदंप्रथमतया क्रीडिते तस्य वयः १६ वर्षाणि २०५ दिनानि चासीत्। 

  अन्ताराष्ट्र क्रिकट् समित्याः [ICC] पूर्णसदस्यत्वोपेतराष्ट्रेभ्यः इदंप्राथम्येन क्रीडन् कनिष्ठतमः द्वितीयो भवति वैभव सूर्यवंशी। पाकिस्थानस्य हसन् रासाभिधेयः भवति प्रथमस्थानीयः। तदा तस्य वयः १४ वर्षाणि २२७ दिनानि चासीत्। बिहारे तेजपुरं निवासीयस्य सूर्यवंशिनः अतीते ऐ पि एल् स्पर्धासु वैभवः एव राष्ट्रीयगणप्रवेशाय मार्गः अभवत्।