OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, July 3, 2026

 महाप्रतापवता सह वीरबालस्य युद्धम् श्वः प्रत्युषसि। 

अर्जेन्टीना - केप् वर्दे प्रतिद्वन्दः। 

केप् वर्दे गणस्य लक्ष्यरक्षकः वोसीञ्ञा। 

मियामी> पादकन्दुकनभसि महाबलाढ्यः प्रतापशाली उज्वलप्रशोभवान् भवति लयोणल् मेस्सेः अर्जन्टीनादलः। विश्वचषकपादकन्दुकवेदिकां प्रति प्रथमप्रवेशे एव वीर्यशौर्यपराक्रमैः पादकन्दुकप्रणयिनाम् अद्भुतादरान् स्वीक्रियमाणः वीरबालः अस्ति केप् वर्दे इति आफ्रिकीयदलः। तयोः स्पर्धा जूलाय् चतुर्थस्य प्रत्युषसि ३.३० वादने [भारतीयसमयः] मियामी क्रीडाङ्कणे सम्पत्स्यते। अर्जेन्टीनायाः अधीशत्वेन सह केप वर्देदलस्य समरवीर्ये उज्वलोत्साहोपेतक्रीडा एव आराधकैः प्रतीक्ष्यते। 

  जे गणस्य (J group) अजय्येन वीरपदेन अस्ति अर्जन्टीनायाः knock out प्रवेशः। प्रतिद्वन्दिभ्यः ८ लक्ष्याणि  प्रदाय केवलं लक्ष्यैकं स्वीकृत्य आधिकारिकविजयः। लयोणल् मेस्सेः प्रतापः लक्ष्यसम्पादने अभङ्गुरमनुवर्तते च। मेसेः विश्वकीर्तिमानस्य अभिवर्धनं कांक्षन्ति आराधकाः। 

  किन्तु केवलं पञ्चलक्षं जनसंख्योपेतात् द्वीपराष्ट्रात् इदंप्रथमतया पादकन्दुकविश्वचषकमञ्चे रंगप्रवेशं कृतवान् केप् वर्दे दलः एच्छ् गणस्य (H group)द्वितीयस्थानमवाप्य अपसारणचरणं [Elimination round] प्राप। प्रकारान्तरेण कथ्यते चेत् अर्जेन्टीना इव 'अपराजितः' भवति केप् गणः। गणीयप्रतियोगितासु सर्वासु समस्थितिं परिपाल्य एव द्वितीयस्थानप्राप्तिः। पराजयः नाभवत्। त्रिषु प्रतिद्वन्द्वेषु आहत्य लक्ष्यद्वयस्य वशंगतः; द्वे लक्ष्ये प्राददात् च। उरुग्वेदलं प्रति २-२ समस्थितौ आसीदिदम्। अन्ययोः द्वयोः प्रतिद्वन्द्वयोः लक्ष्यरहितसमस्थितिः च। 

  प्रतिरोध एव केपगणस्य शक्तिः। ४० वयस्कस्य लक्ष्यरक्षकस्य [goalkeeper] 'वोसीञ्ञा' वर्यस्य वैभवे एव केपराष्ट्रस्य प्रतीक्षा।

Latest newsLatest news