OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 4, 2026

 अयोध्यामन्दिरधनापहरणम्।

अपहरणदृश्यानि बहिरागतानि। 


नवदिल्ली> उत्तरप्रदेशे अयोध्यायां रामलल्लामन्दिरे समर्पणराशिम् अपह्रियमाणानि सि सि टि वी दृश्यानि अन्वेषणसंस्थया अधिगतानि। तानि बहिरागतानि च। 

  सविशेषान्वेषणसंस्थया [एस् ऐ टि] निगृहीतेषु अष्ट जनेषु पञ्च, भण्डारराशेः गणनावसरे धनं तेषां वसनेषु पादावरणेषु निलीय संस्थापनस्य दृश्यानि अधिगतानि। राममन्दिरात् २०० मीटर् मितं दूरे वर्तमानस्य समर्पितधनगणनकेन्द्रस्य  - नाम्ना Pilgrim Facilitation Centre - ४५ दिनानां सि सी टि वि दृश्यानि एव परिशोधितानि। निगृहीतैः व्यवहृतेषु स्थानेषु कृते परिशोधने आरक्षकैः मुद्राभाण्डानि अधिगतानि। निगृहीतात् अविनाश् शुक्ला इत्यस्मात् २०. ३९ लक्षं, करुणेश पाण्डे इत्यस्मात् १८. ०७ लक्षं, अनुकल्प मिश्रात् १६. ८२ लक्षं, लवकुश मिश्रात् १४. २५ लक्षं राम शंकर मिश्रात् ७. ३२ लक्षं चम्पत् रायि इत्यस्य यानचालकात् रामशंकरयादवात् एकलक्षं च रूप्यकाणि - इत्यस्ति अधिगतसंख्यानां विवरणम्। एतदतिरिच्य ११ ग्राम् मितं सुवर्णं, ३७४ ग्रां रजतं, ११२१ यू एस् डोलराणि च गृहीतानि।