OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, July 4, 2026

 केरलम्। 

"ओपरेषन् तूफान्" अभियोजनया ३० कोटीनां निरोधितोन्मादकवस्तूनि निगृहीतानि। 

ओपरेषन् तूफानस्य अंशतया निगृहीतानि उन्मादकवस्तूनि। 

अनन्तपुरी>  उन्मादक'माफिया'संघस्य उन्मूलनाशं लक्ष्यीकृत्य  केरलराज्ये मासैकस्मात् पूर्वम् आरब्धा ओपरेषन् तूफान् नाम अभियोजनाप्रचण्डवातः  सगौरवं वाति। एकमासाभ्यन्तरे ३० कोटिरूप्यकाणां निरोधितानि उन्मादकवस्तूनि निगृहीतानि। ५३५३ प्रकरणानि पञ्जीकृत्य ५७३६ अपराधिनः निगृहीताः। 

  ३७९२ किलोमितं 'गञ्जा' नामकं मादकं निगृहीतम्। १२.६७०९ ग्रां मेताफिटमिन्, ३७७६ ग्रां हाषिष् तैलं, ६५७.२१९ ग्रां ब्रौण् षुगर्, ३१.२३ ग्रां हेरोयिन्, ११ LSD stamp, २५.२३ ग्रां ओपियं, ४२८ गञ्जा सस्यानि इत्यादीनि उन्मादकवस्तूनि केरलस्य विभिन्नप्रदेशेभ्यः निगृहीतानि। 

 ये मादकवस्तूपभोगाधीनाः जाताः तान् प्रबोधेन पुनरधिवासेन च समाजस्य मुख्यपथमानेतुं प्रयत्नः करणीयः इति राज्यगृहविभागस्य लक्ष्यम्।