OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, July 2, 2026

 जापानस्य प्रधानमन्त्री भारते।

अद्य मोदिना सह मेलनम्। 

जापानस्य प्रधानमन्त्रिणं सनाय् तकाय्चीवर्यां केन्द्रमन्त्री जितेन्द्रसिंहः स्वीकरोति।  

नवदिल्ली> जापानस्य प्रधानमन्त्री सनाय् तकाय्ची वर्या बुधवासरे सायं भारतं सम्प्राप। गुरुवासरे  दशवादने राष्ट्रपतिभवने तकाय्चि वर्यायै औद्योगिकं स्वीकरणं दास्यति। ततः ११.३० वादने दिल्ल्यां हैदराबादहौस् मध्ये उभयोरपि प्रधानमन्त्रिणोः उभयपक्षचर्चा विधास्यते। परस्परसहयोगाय विविधेषु सन्धिषु हस्ताक्षरीकरणं भविष्यति।

 प्रधानमन्त्रिपदस्वीकरणानन्तरं तकाय्ची वर्यायाः प्रथमं भारतसन्दर्शनं भवत्येतत्। जूलाय् तृतीयदिनाङ्कपर्यन्तं भारते भविष्यति। ह्यः भारतस्य शास्त्रसाङ्केतिकमन्त्री जितेन्द्र सिंहः विमाननिलये जापानप्रधानमन्त्रिणं स्वीचकार।