OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 24, 2017

चतुर्दशलक्ष जनानां तान्त्रिक विशदांशाः सर्वकारस्य अन्तर्जालपत्रे प्रकाशिताः।
राञ्चि>तन्त्राधिगमस्य अनधिकृतोपयोगेन झारखण्ड् राज्ये चतुर्दशलक्ष जनानां तन्त्रिकविशदांशाः सर्वकार अन्तर्जालपत्रे प्रकाशिताः।
राष्ट्रे वार्धक्य आर्थिकसाहाय्यं स्वीकृतवतां चतुर्दशलक्ष वृद्धजनानां नामानि,सङ्केतः,अधार अङ्कः, बांक् क्रमाङ्कः इत्यादि विशदांशाः सन्ति सर्वकार अन्तर्जालपत्रे।
राष्ट्रे आहत्य षोडशलक्ष जनाः सर्वकारस्य आर्थिकसाहाय्यं स्वीकुर्वन्तः सन्ति। तेषु चतुर्दशलक्षाः आर्थिकसाहाय्यं आर्थिकालयात् स्वीकर्तुं स्व आधार अङ्केन सह आर्थिकालय क्रमसंख्या बन्धितवन्तः। सर्वकार सेवायै आधारः अनिवार्यः न करणीयः इति न्यायशाला तथा प्रतिपक्षदलानि निर्णयस्वीकरणालोचनायामस्ति एषा घटना।