OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 9, 2017

सिरिया राष्ट्रं प्रति मिसैल् आक्रमणम् यु एस्- रष्या बन्धः शिथिलः। विश्वम् आशड्कायाम्।
वाषिड्टण्> युएस् रषिया बन्धः पुनः शिथिलः जातः। षट् संवत्सरेषु प्रथमवारं युएस् सिरियायां मिसैल् आक्रमणम् अकरोत्। युएस् राष्ट्पतेः डोणाल्ट् ट्रंपस्य निदेशानुसारं सिरियायां षयारत् व्योमसेनाक्षेत्रे आसीत् आक्रमणम्। विश्वं सम्पूर्णं स्वेन सहैव स्थातव्यमित्यपि ट्रंपेन निवेदितम्। आक्रमणं एनं अरेब्यन् राष्ट्रः स्वागतमकरोत्।
 सिरियायां गत षटसंवत्सरेषु प्रचलिते आभ्यन्तर कलापे चतुर्लक्षोपरि जनाः हताः इति गण्यते। यु एस् नेतृत्वेन सख्यसेना २०१४ आरभ्य सिरियायां ऐ एस् केन्द्रेषु अग्निगोलकाक्रमणं करोति।

 वयनाट् गिरौ केरळ सर्वकारस्य बस् यानम् आपति पतितम्। यात्रिका: भाग्यात् रक्षिताः
कल्पट्टा(केरळम् )> वयनाट् पर्वतमार्गे  अनियन्तृकात्  बस् यानात्  यात्रिका:  भाग्यात् रक्षिताः। तोटुपुषत: सुल्तान्बतेरिं प्रतिगतवत् बस् यानं नवमे पर्वतमार्गे भित्तौ संघट्टनं कृत्वा इयं घटना जाता। शनिवासरे प्रातः एक वादने विपत्तिरियं संजाता। बस् यानस्य कश्चन पार्श्र्व: पूर्णरूपेण सुरक्षाभित्तेः बहिरभवत्। अर्ध भागादाधिक: पार्श्र्वः गर्तस्य भागे आसीत्। तथापि यानं न पातितं इत्यतः अनेकेषां प्राणाः एव रक्षिता:। चालक स्य पार्श्र्वे विद्यमानेन द्वारेण एव यात्रिकाः बहिरानीता: चालक: निद्रायां पतितः इत्येतत् आपत्कारणमिति चिन्त्यते।