OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 5, 2017

गृहकार्येषु हस्ताक्षेपः न कार्यः। चैनाराष्ट्राय भारतस्य निर्देशः।
 नवदेहली>भारतस्य गृहकार्येषु चैना हस्ताक्षेपः न कर्तव्यः इति गृहमन्त्रालयः। डिबट्ट देशस्य आत्मीयाचार्यस्य दल्लैलामा महोदयस्य अरुणाचलसन्दर्शनसंबन्धितया आसीत् भारतस्य एषः उद्घोषः। विवादानां निर्माणाय चैना प्रयतते। दलैलामायाः सन्दर्शनं वस्तुतः धार्मिकाधिष्ठितं मात्रंम्। राजनैतिकतायै न। अरुणाचलप्रदेशः अस्माकं शासनान्तर्गतः इति चैना वदति। अतः विदेशनेतॄणां सन्दर्शनं तैः रोधयितुम् उद्यम्यते। किन्तु अरुणाचलप्रदेशः अस्माकम् अविभाज्यः इति भारतं व्यक्तीकरोति। चैनायाः कर्मसु केन्द्रगृहसहसचिवः किरण् रिज्जु पूर्वमेव मतप्रकटनमकरोत्। चैनायाः गृहकार्येषु वयं हस्तप्रसारं न कुर्मः। अस्माकम् आभ्यन्तरकार्येषु स्वकीयेषु विषयेषु तेषामपि हस्ताक्षेपः नआवश्यकः। इति रिज्जु अवदत्।


सिरियायां रासायुधप्रयोण 35 जनाः मृताः 
डमास्कस् > सिरियायां पुनरपिरासायुध प्रयोगः । अनेन पञ्च त्रिंशत् जनाः मृताः षष्ठिजनाः गुरुतर रीन्या व्रणिताः च । उत्तरपश्चिम सिरियायाः विमतानां स्वाधीनमण्डलमिति सुज्ञातम् इड्लिब् प्रवि श्यायाः खान् षैखोण् प्रदेशे एव इयं दुर्घटना। 'क्लोरिन्' वातकः एव वर्षितः । पीडितेषु अधिकेषु शिशव: साधारणजना: च अन्तर्भवन्ति। रासायुधवर्षेण तेषां श्वसनेबाधा वमनश्च अभवत् । घटनायाः चित्राणि तत्रत्येषु अन्तर्जालवार्तापुटेषु प्रकाशितानि सन्ति।
केन इदं दुष्कृतं कृतमिति न ज्ञायते। सिरियायाः सर्वकारः रष्याया: ' जेट्' वा स्याताम् इति मनुष्याधिकार-संस्थया आरोपितः। २०१४-२०१५ संवत्सरान्तरे वारत्रयं यावत् सिरियायाः सर्वकार सेनया रासायुध-प्रयोगं कृतम् इति UN तथा रासायुध प्रयोगान् विरुद्ध्य प्रवृत्तमानया Organisation for the prohibition of Carmichael vepons नाम र्सस्थया संदृष्टम् आसीत् । अस्मिन् घटनायां कृतः दोषारोपः सिरियायाः सर्वकारेण निरस्था।

भक्षणस्पर्धाभ्यन्तरे फुल्लपूरगलनेन तत् कण्ठे संरुध्य विद्यार्थिनी मृता।

वाषिड्टण् >भर्जफुल्लपूरखादनस्पर्धाभ्यन्तरे तत् कण्ठे संरुध्य सर्वकलाशाला विद्यार्थिनी दिवंगता । कणक्टिकटे सेक्रट् हार्ट् सर्वकलाशालाया: समाजकार्यविभागविद्यार्थिनी केय्ट्लिन् नेल्सण् ( २० ) एव दिवंगता । गुरुवारे कलाशालायां ग्रीक्जीवनकार्यक्रमेण सहैव  खादनस्पर्धापि आयोजिता।फुल्लपूरखादनसमनन्तरमेव नेल्सणस्य शारीरिकास्वास्थ्यमभवत्। तदा तत्रत्यैव आतुरसेविकाविद्यार्थिनी झटिति प्राथमिकशुश्रूषां दत्तवती। तत: अधिकारिण: ताम् आतुरालयं प्रापितवन्त: चेदपि रविवासरे मरणं समभवत् ।