OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 6, 2017

 एकलक्षं यावत् कार्षिकऋणानि मुक्तं करिष्ये -योगी आदित्यनाथ:।
लकनौ >  एकलक्षं यावत् कार्षिक ऋणानि मुक्तं कर्तुं योगिन: आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशमन्त्रिसभाया: प्रथमयोगे निर्णय: स्वीकृत:। राज्ये 2.15 कोटि कृषकाः तथा अन्ये 7 लक्षं जनाश्च एतस्य फलं लभेयु:। एतावता प्रत्यप्राप्यानीति उद्घोषितानि 36359 कोटि रूप्यकाणां ऋणानि एव  एवं ऋणमुक्तः भविष्यति। ऋणसड्ख्यामेतां  प्रत्यभिज्ञातुं कार्षिकऋणपत्रं  प्रकाशयितुमपि व्यवस्था क्रियते। कार्यमिदं भा ज पा निर्वाचन-वाक्दान-पत्रिकायां वाग्दानेषु अन्तर्भवति। आलुकस्य मूल्यशोषणे परिहारमन्वेष्टुम् उपमुख्यमन्त्रिण: केशवप्रसादमौर्यस्य नेतृत्वे त्र्यड्गोपसमितिश्च  रूपीकृता । गोधूमस्य आलम्बमूल्यं प्रति क्विन्टल् 10 ₹ इति  वर्धयेयु: । व्यवसायनयरूपीकरणं  लक्षीकृत्य उपमुख्यमन्त्रिण: दिनेशशर्मण: नेतृत्वे मन्त्रिसभाया: उपसमिति: विभिन्नराज्येषु सन्दर्शनमपि कुर्यात्।


व्याजरुप्यकपत्राणां भीषाः-द्विसहस्रस्य रुप्यकपत्रं स्थास्यतीति केन्द्रसर्वकारः।
नवदेहली > द्विसहस्ररुप्यकपत्रेषु व्याजपत्राणाम् आगमनेन अपि तानि स्थास्यतीति केन्द्रगृहसहसचिवेन किरण् रिज्जु महोदयेन उक्तम्। एवं व्याजपत्राणाम् ग्रहणे बहु प्रयत्नं कुर्मः इत्यपि सः अवोचत्। चोद्योत्तरवेलायां कोण्ग्रस् दलस्य अड्गेन मधुसूदन मिस्रि महोदयेन पृष्टस्य प्रश्नस्य समाधानं ददाति आसीत् सचिवः।
व्याजरुप्यकपत्राणि मुख्यतया गुजरातराज्यात् तथा पश्चिमबंगाल राज्यात् च ग्रहीतानि। व्याजपत्राणाम् अभिज्ञानं दुष्करमिति वादं न सत्यमिति तेन उक्तम्। पञ्चशत सहस्र रुप्यकपत्राणां निरोधनानन्तरं सीमासुरक्षासेनाया द्विसहस्रस्य ३७८ व्याजरुप्यकपत्राणि तथा एन् ऐ ए द्वारा ४.५३ कोटि रुप्यकाणां व्याजपत्राणि च ग्रहीतानि।