OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 23, 2017

भाजपस्य विजयाभियानम् अप्रतिहतम्
मुम्बै >महाराष्ट्रराज्ये भारतीयजनतापक्षस्य विजयाभियानम् अप्रतिहतरीत्या प्रचलति। राज्ये महानगरपालिकायाः निर्वाचनं गते गुरुवासरे अभवत्। तन्मध्ये द्वे महानगरपालिकायायां भाजपदलेन जयम् प्राप्तमस्ति।
दिवंगतस्य केंद्रियमंत्री विलासरावदेशमुखस्य स्वग्रामे लातूरनगरे अपि भाजपदलः जेतारूपेण उद्भूतः अस्ति। तत्र ७० स्थानात् ४१ स्थानानि विजित्य भाजपेन नवेतिहासः लिखितः अस्ति। स्वातंत्र्यप्राप्त्यानंतरम् काँग्रेसदलं पराजित्य यः कः अपि दलः अत्र सत्ताम् प्राप्तुम् एतत् अस्ति प्रथमः प्रसंगः। चंद्रपूरनगरे अपि भाजपेन सत्तां हस्तगता। तत्र भाजपेन ६६ स्थानात् ३६ स्थानानि विजितानि।
परभणीनगरे काँग्रेसदलम् अनपेक्षिततया विजयं प्राप्तवान्। तत्र राष्ट्रवादीकाँग्रेसदलः पराजितः आसीत्।